Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown
________________
१३४
भर्तृहरिकृत-शतकत्रयम् कथंभूता भार्या ! । सुवर्णमयमूर्तिः सुवर्णवर्णा कनकनिमा । आर्यापि शोभनाक्षरबन्धा । एवंविधगुणवती भार्या त्वार्या च कार्या ॥ १०.१ ॥
योषितां चञ्चलस्वरूपमाह८. जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः।
हृदतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ ५० ॥
योषितः अन्येन पुरुषेण साधं जल्पन्ति संभाषणं कुर्वन्ति । ताः सविभ्रमाः सविलासाः सत्यः अन्यं नरं पश्यन्ति प्रेमदृष्ट्या विलोकयन्ति । [हृद्गतं हृदयस्थं अन्यं वल्लभं चिन्तयन्ति स्मरन्ति । इति कारणात् । नाम इति निर्धारणे। योषितां नारीणां कः प्रियो वल्लभः स्यात् । न कोऽपि । यदुक्तं ग्रन्थे
"सरसलिलसिलीमुहदिशयरस्स तणुजीयहययवयणाइ । चिहुँ रमइ चउरनलिणी मणमाणइ रायहंसस्स" ॥ ५७ ॥
अथ वसन्तवर्णनं कविराह९. सहकारकुसुमकेसरनिकरभरामोदमूछितदिगन्ते ।
मधुरमधुविधुरमधुपे मधौ भवेत् कस्य नोत्कण्ठा ॥ ५८ ॥
मधौ वसन्ते कस्योत्कण्ठा न भवेत् । सर्वस्यापि भवेत् । [कीदृशे मधौ ?] । सहकारस्य कुसुमानि तेषां केसराणि तेषां निकरस्तस्य भरस्तस्यामोदस्तेन मूच्छितो दिगन्तो यत्र तस्मिन् । पुनः कथंभूते ? । मधुरं च तन्मधु च मधुरमधु तस्मिन् विधुरा मधुपा यत्र तस्मिन् ॥ ५८ ॥
जरास्वरूपमाह१०. यातं यौवनमधुना वनमधुना शरणमेवमस्माकम् ।
स्फुरदुरुहारमणीनां हा रमणीनां गतः कालः ॥ ९८ ॥
अधुना इदानीं यौवनमधुना यातं गतम् । यूनो भावो यौवनम् । यौवनमेव मधु यौवनमधु तेन । यौवनमदेनेत्यर्थः । मधु मद उच्यते । अतः अस्माकं वनमेव शरणम् । हा इति खेदे । रमणीनां नारीणां कालः समयो गतः। किंभूतानां स्त्रीणाम् । स्फुरदुरुहारमणीनां स्फुरन्त उरवो हारा मणयो यासां ताः तासां स्फुरदुरुहारमणीनाम् ॥ ९८ ॥
विषयाणां विषय( ? विष स्वरूपमाह११. विषस्य विषयाणां च दूरमत्यन्तमन्तरम् ।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥ ९९ ॥
विषस्य च पुनर्विषयाणां अत्यन्तं अत्यर्थ दूरं अतिशयेनान्तरं भेदः आधिक्यम् । विर्ष क? विषयाः क ?। एतेन विषात् विषया बहुलतरमधिकाः। केन प्रकारेण । विषं उपयुक्तं भुक्तं सत् हन्ति । विषयाः स्मरणादपि नन्ति ॥ ९९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188