Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 168
________________ श्रृंगारशतकाधिकश्लोकाः। १३३ पुनः कथंभूतं यौवनम् ? । प्रकटितविविधस्पष्टदोषप्रबन्धं प्रकटितो विविधस्पष्टदोषाणां प्रबन्धो येन तत् । एवंविधं यौवनं वर्तते ॥ ४१ ॥ अथ ज्ञानस्य पुरुषमाश्रित्य गुणदोषस्वरूपमाह४. ज्ञानं सतां मानमदादिनाशनं केषां चिदेतन्मदमानकारणम् । स्थानं विविक्तं यमिनां विमुक्तये कामातुराणामपि कामकारणम् ॥७७॥ सतां सत्पुरुषाणां ज्ञानं मानमदादिनाशनं भवति । यतः सत्पुरुषे ज्ञानं प्रधान स्यात् । केषां चित् पुरुषाणां एतत् ज्ञानं मदमानकारणं भवति। [विविक्तं स्थानं यमिनां विमुक्तये भवेत्।। कामातुराणामपि तत् कामकारणं भवेत् । यादृशः पुमांस्तादृशं ज्ञानं प्रतिभासति(ते) ॥ ७७ ॥ अथ दानवीररसमाह.... ५. कियती पञ्चसहस्री कियती लक्षाऽथ कोटिरपि कियती । __ औदार्योन्नतमनसां रत्नमती वसुमती कियती ॥ ७८ ॥ पञ्चानां सहस्राणां समाहारः पञ्चसहस्री दाने कियती कियन्मात्रा । अथ वा लक्षाश्च (१क्षा च) कियती । कियती लिङ्गं न व्यभिचरति । अन्यथा कियन्तो लक्षाः एवं स्यात् (१) एवं कोटिरपि कियती। औदार्योन्नतमसां औदार्येण उन्नतं उच्चं मनो येषां ते औदार्योन्नतमनसस्तेषां रत्नवती वसुमती रत्नपूर्णा पृथिवी कियती कियन्मात्रा ॥ ७८ ॥ अथ वैराग्य - शृङ्गारैक्यस्वरूपमाह६. आवासः क्रियतां गाङ्गे पापवारिणि वारिणि । स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ ७९ ॥ गाङ्गे वारिण्यावासः क्रियताम् । कथंभूते वारिणि ? । पापवारिणि पापं वारयतीत्येवंशीलं पापवारि तस्मिन् पापवारिणि । वा अथ वा तरुण्याः स्तनमध्ये आवासः क्रियताम् । कथंभूते स्तनमध्ये ? । मनोहारिणि । पुनः कथंभूते । हारिणि हारो विद्यते यस्मिंस्तत् हारि तस्मिन् हारिणि ॥ ९४ ॥ भार्यार्ययोः समानस्वरूपमाह७. सरसा सुपदन्यासा सालङ्कारा सुवर्णमयमूर्तिः। आर्या तथा च भार्या न लभ्यते पुण्यहीनेन ॥ १०१॥ भार्या च पुनः तथा आर्या पुण्यहीनेन मनुष्येण न लभ्यते न प्राप्यते । कथंभूता भार्या ? । रसेन रागेण सह वर्तमाना सरसा । क ? । भर्तरि । कीदृशी आर्या ? । सरसा शृङ्गा"रादिरसोपेता विदुषि । किंभूता भार्या ? । सुपदन्यासा सुचरणा । आर्यापि शोभनपदा । किंभूता भार्या ? । सालङ्कारा हारादिभूषणयुता । आर्या अलंकारयुक्ता चित्राद्यलंकृतिसंपन्ना । पुनः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188