________________
श्रृंगारशतकाधिकश्लोकाः।
१३३ पुनः कथंभूतं यौवनम् ? । प्रकटितविविधस्पष्टदोषप्रबन्धं प्रकटितो विविधस्पष्टदोषाणां प्रबन्धो येन तत् । एवंविधं यौवनं वर्तते ॥ ४१ ॥
अथ ज्ञानस्य पुरुषमाश्रित्य गुणदोषस्वरूपमाह४. ज्ञानं सतां मानमदादिनाशनं केषां चिदेतन्मदमानकारणम् ।
स्थानं विविक्तं यमिनां विमुक्तये कामातुराणामपि कामकारणम् ॥७७॥
सतां सत्पुरुषाणां ज्ञानं मानमदादिनाशनं भवति । यतः सत्पुरुषे ज्ञानं प्रधान स्यात् । केषां चित् पुरुषाणां एतत् ज्ञानं मदमानकारणं भवति। [विविक्तं स्थानं यमिनां विमुक्तये भवेत्।। कामातुराणामपि तत् कामकारणं भवेत् । यादृशः पुमांस्तादृशं ज्ञानं प्रतिभासति(ते) ॥ ७७ ॥
अथ दानवीररसमाह.... ५. कियती पञ्चसहस्री कियती लक्षाऽथ कोटिरपि कियती ।
__ औदार्योन्नतमनसां रत्नमती वसुमती कियती ॥ ७८ ॥
पञ्चानां सहस्राणां समाहारः पञ्चसहस्री दाने कियती कियन्मात्रा । अथ वा लक्षाश्च (१क्षा च) कियती । कियती लिङ्गं न व्यभिचरति । अन्यथा कियन्तो लक्षाः एवं स्यात् (१) एवं कोटिरपि कियती। औदार्योन्नतमसां औदार्येण उन्नतं उच्चं मनो येषां ते औदार्योन्नतमनसस्तेषां रत्नवती वसुमती रत्नपूर्णा पृथिवी कियती कियन्मात्रा ॥ ७८ ॥
अथ वैराग्य - शृङ्गारैक्यस्वरूपमाह६. आवासः क्रियतां गाङ्गे पापवारिणि वारिणि ।
स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ ७९ ॥
गाङ्गे वारिण्यावासः क्रियताम् । कथंभूते वारिणि ? । पापवारिणि पापं वारयतीत्येवंशीलं पापवारि तस्मिन् पापवारिणि । वा अथ वा तरुण्याः स्तनमध्ये आवासः क्रियताम् । कथंभूते स्तनमध्ये ? । मनोहारिणि । पुनः कथंभूते । हारिणि हारो विद्यते यस्मिंस्तत् हारि तस्मिन् हारिणि ॥ ९४ ॥
भार्यार्ययोः समानस्वरूपमाह७. सरसा सुपदन्यासा सालङ्कारा सुवर्णमयमूर्तिः।
आर्या तथा च भार्या न लभ्यते पुण्यहीनेन ॥ १०१॥
भार्या च पुनः तथा आर्या पुण्यहीनेन मनुष्येण न लभ्यते न प्राप्यते । कथंभूता भार्या ? । रसेन रागेण सह वर्तमाना सरसा । क ? । भर्तरि । कीदृशी आर्या ? । सरसा शृङ्गा"रादिरसोपेता विदुषि । किंभूता भार्या ? । सुपदन्यासा सुचरणा । आर्यापि शोभनपदा । किंभूता भार्या ? । सालङ्कारा हारादिभूषणयुता । आर्या अलंकारयुक्ता चित्राद्यलंकृतिसंपन्ना । पुनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org