________________
भर्तृहरिकृत - शतकत्रयम्
धन्यो ना क्षि(क्ष)पां निशां [ क्षपयति ] गमयति । किं कृत्वा ? । कान्तापयोधरतटे कामिनी कुचदेशे वक्षो हृदयं निधाय धृत्वा । कथंभूते पयोधरतटे ? । [मत्तेकुम्भपरिष्ाहितकुङ्कुमार्द्रे] मत्तेभकुम्भवत् परिणाहितं विशालं उन्नतं च तत् कुङ्कुमेन आर्द्र क्लिन्नं लिप्तं वा तत् कुङ्कुमार्द्रं च तस्मिन् । कथंभूतो धन्यः ? । [ रतिखेदखिन्नः ] रतिः संभोगस्तस्माद् यः खेदस्तेन खिन्नः श्रान्तः । पुनः कथंभूतः ? । भुजपञ्जर मध्यवर्ती भुजयोः पञ्जरं भुजपञ्जरं भुजपञ्जरस्य मध्यं भुजपञ्जरमध्यं तस्मिन् वर्तितुं शीलमस्येति भुजपञ्जरमध्यवर्ती । कान्ताभुजाश्लिष्ट इत्यर्थः । पुनः कथंभूतः ? | क्षणलब्धनिद्रः क्षणं लब्धा निद्रा येन सः ॥ १८ ॥ इदानीं कान्तानयनचपलस्वरूपं निरूपयति -
२. इयं बाला मां प्रत्यनवरतमिन्दीवरदलप्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया ।
१३२
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ १९ ॥
इयं प्रत्यक्षा बाला मां प्रति अनवरतं निरन्तरं चक्षुः क्षिपति चक्षुःक्षेपं कुरुते । तर्हि अनया किमभिप्रेतं किं वाञ्छितं प्राप्तम् ? । न किंचित् प्राप्तमित्यर्थः । किंभूतं चक्षुः । इन्दीवरदलप्रभाचौरं इन्दीवरस्य दलानि तेषां प्रभा तां चोरयतीति तत् कविरूढित्वा चौरम् | यतोऽस्माकं मोहो गतो निवृत्तः । तथा स्मरशबरबाणव्यतिकरज्वरज्वाला शान्ता उपशमिता । स्मर एव शबरो भिल्लस्तस्य बाणास्तेषां व्यतिकरात् ज्वरस्तस्य ज्वाला शान्ता । तदपि वराकी मुग्धा न विरमति । इदानीं वयं योगिनः इयं न जानाति । यन्मां प्रति दृष्टिं दत्ते इति भावः ॥ १९ ॥
यौवनस्वरूपं निवेदयति
३. रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतुं ( ? तुर् ) मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन् न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ ४१ ॥
हि निश्चितम् । अस्मिन् लोके यौवनादन्यदनर्थव्रजकुलभवनं नास्ति । यौवनमेवानर्थकुलभवनम् । अनर्थानां व्रजः समूहस्तस्य कुलं तस्य भवनं गृहम् । अर्थवशाद् विभक्तिपरिणामः । कथंभूतं यौवनम् ? । रागस्यैकमद्वितीयमागारं धाम । पुनः कीदृग् यौवनम् ? । नरकशतमहादुःखसंप्राप्तिहेतुम् (तुः ) । महान्ति च दुःखानि शतसंख्यानि महादुःखानि । नरकेषु शतमहादुःखानि नरकशतमहादुःखानि तेषां संप्राप्तिस्तस्या हेतु (तुः ) । पुनः कथंभूतं यौवनम् ? । मोहस्य मौढ्यस्योत्पत्तिबीजम् । यतो बीजादुत्पत्तिः सर्वस्य वस्तुनः । पुनः कथंभूतम् ? । ज्ञान ताराधिपस्य चन्द्रस्याच्छादने जलधरपटलं मेघवृन्दम् । पुनः किं लक्षणम् ? । कन्दर्पस्यैकमित्रम् ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only