________________
१३१
शगारशतकाधिकश्लोकाः। वहृदयस्य साधुमार्गोपदेशमाह१०. यदि धनिनः सत्पुरुषा यदि च सुरूपाणि परकलत्राणि ।
अनुपचितसुकृतसंचय तव हृदय किमाकुलीभावः ॥ ९८ ॥ - हे अनुपचितसुकृतसंचय ! हे हृदय ! तव किं आकुलीभावः । [न] उपचितोऽनुपचितः । सुकृतस्य पुण्यस्य संचयः संग्रहः सुकृतसंचयः । अनुपचितोऽपूर्णः सुकृतसंचयो यस्य स तस्य संबोधनम् । यदि चेत् सत्पुरुषा धनिनः सन्ति यदि च परकलत्राणि सुरूपाणि दृश्यन्ते तदा तव कः खेद इति ॥९८॥
चन्दनस्वरूपेण सत्पुरुषदानस्वरूपमाह११. यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः।
निजवपुषैव परेषां थापि संतापमपनयति ॥ ९९ ॥ इह कविसमये चन्दनतरुषु विद्यमानानि फलकुसुमानि काव्ये बुधो नबध्नीयात् । यदुक्तम्" चंदणतरु व्व सुयणा फलरहिआ जइवि निम्मिआ विहिणा।
तहवि करंतुवयारं लोयाणं नियसरीरेण ॥” इति ।
यद्यपि विधिना चन्दनविटपी श्रीखण्डवृक्षः फलकुसुमरहितः कृतः । तथापि निजशरीरेण अन्येषां जन्तूनां संतापं खेदं अपनयत्येव स्फेटयत्येव । तथा निरवस्थोऽपि सत्पुरुषः स्वदेहेनोपकारं करोत्येव । अन्योक्तिरलंकारः ॥ ९९ ॥
. महत्सेवाफलमाह.... १२. परिचरितव्याः सन्तो यद्यपि कथयन्ति नैवमुपदेशम् ।
यास्तेषां खैरकथास्ता एव भवन्ति शास्त्राणि ॥ १० ॥
पुरुषेण तदपि सन्तो महान्तः सेव्या यद्यप्युपदेशं शिष्यां (१क्षां) न कथयन्त्येव । तेषां महतां याः खेच्छया कथा याः स्वभावेन वार्ताः चेष्टास्ता अन्येषामज्ञानिनामेवं निश्चितं .शाखाणि शिष्या(?क्षा)रूपाणि भवन्ति ॥१०॥
(२) शृंगारशतकगतानि अधिकपद्यानि । अथ शृंगारशते त्यक्तकाव्यानां टीका लिख्यते। शृंगारो द्विविधो रसः । एकः संभोगो द्वितीयो वियोगश्च । अत्र संभोगमाह१. मत्तेभकुम्भपरिणाहितकुकुमा
कान्तापयोधरतटे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती
धन्यः क्षि(क्ष)पां क्षपयति क्षणलु(?ल)ब्धनिद्रः ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org