Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 175
________________ १४० भर्तृहरिकृत-शतकत्रयम् धन्यस्त्वं यद् वनान्ते गमयसि समयं दारुणं द्रव्यगर्व प्रध्मातोद्गर्वग्रनुग्रहिलखरखलक्ष्मापवक्त्राण्यपश्यन् ॥ १६ ॥ हे सारङ्ग मृग ! त्वं धन्यो यत् यस्मात् कारणात् त्वं वनान्ते दारुणं समयं गमयसि। त्वं किं कुर्वन् ? । द्रव्यगर्वप्रध्मातोद्गर्वग्रभुग्रहिलखरखलक्ष्मापवक्त्राण्यपश्यन् । द्रव्यगण प्रध्माताः शब्दायमानाः पूत्करणशीलाः उद्गर्वा अध्नवो ग्रहिलाः खराश्चण्डा ये खलाः क्ष्मापाला राजानस्तेषां मुखान्यपश्यन् । किं कृत्वा ? । सारं यथा भवति तथा रङ्गत्तरङ्ग( ? रुण तृणशिखाखण्डखादेन क्षौधं खेदं नीत्वा । रङ्गन्ति च तानि च तरुणानि तृणानि च तेषां शिखास्ता एव खण्डखादः खण्डभक्षणं तेन क्षौधं क्षुधायां भवः क्षौधस्तं खेदं नीत्वा । यो योषिता पीतशेष सलीलं यथा स्यात्तथा सलिलमनु पश्चात् पिबेत् । अनेन मृगोऽपि धन्यो यः स्वेच्छया तृणादिकमत्ति प्रियायुतः पानीयं पिबति मूर्खगर्वितनृपवक्त्राणि अपश्यन् । स एव श्रेष्ठः स्वेच्छाचारी । तस्मान्मनुजानां जन्म निःफलं यः पराधीनवृत्तिः ॥ १६ ॥ अथान्योक्त्या मृगाणां स्तुतिरूपमाह१४. यद् वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटुं मृषा नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि । काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ १७ ॥ हे कुरङ्ग ! मे मम तत् ब्रूहि । भवता त्वया । नाम इति कोमलामन्त्रणे । कुत्र कस्मिन् स्थाने तपस्तप्तम् । तत् किम् ? । यद् धनिनां वक्त्रं मुहुर्वारं वारं न ईक्षसे । मृषा चाटुं न ब्रूषे । एषां धनिनां गर्वयुक्ता गिरो न शृणोषि । पुनः प्रत्याशया वाञ्छया न धावसि । काले बालतृणानि खादसि भक्षसि । निद्रागमे सुखं निद्रासि । अनेन मृगावतारोऽपि धन्यो, मनुष्यजन्म न धन्यः (? न्यम् ) ॥ १७॥ अथ निरर्थकजीवनं निन्दन् तत्स्वरूपमाह१५. धिक् किंजीवनमापदेकनिलयं पित्राप्तबन्धूज्झितं दीनानाथजनोपकारकरणव्यापारदूरीकृतम् । _ मन्दीभूतशशाङ्कशेखरपदद्वन्द्वारविन्दस्मृतिर् व्यालोलायतलोचनास्तनतटप्रश्लेषविश्लेषितम् ॥ १८ ॥ किंजीवनं धिक् । धिक् योगे द्वितीया । कुत्सितं जीवनं किंजीवनम्। कथंभूतं किंयौ(जी)वनम् । आपदेकनिलयं आपदां एकं केवलं निलयं गृहं तत् । पुनः कीदृक् यौ(किंजी)वनम् ।। . पित्राप्तबन्धूज्झितं पिता च आप्तश्च बन्धुश्च ते, तैरुज्झितं त्यक्तम् । एवंविधं जन्मानाथरूपम् । पुनः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188