Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 176
________________ वैराग्यशतकाधिकश्लोकाः। कथंभूतं किंयौ(जी)वनम् ? । दीनानाथजनोपकारकरणव्यापारदूरीकृतं तद्रहितम् । पुनः कथंभूतम् । मन्दीभूतशशाङ्कशेखरपदद्वन्द्वारविन्दस्य स्मृतिर्यत्र तत् । पुनः किंभूतं किंजीवनम् ? । व्यालोलायतलोचनायाः स्तनतटं तस्य प्रश्लेषः आलिङ्गितं तेन विश्लेषितं दूरीकृतम् । अनेन धर्मार्थकामरहितम् ॥ १८ ॥ अथ जरानिन्दामाह१६. वर्ण सितं झटिति वीक्ष्य शिरोरुहाणां ___स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थिशकलं परिहत्य यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ १८ ॥ तरुण्यो नार्यः शिरोरुहाणां केशानां सितं वर्ण वीक्ष्य दरतरं यान्ति तस्मात् । कथम् । झटिति शीघ्रम् । पुंसां तदेव केशश्वेतवर्णमेव परिभवस्य परं पदं परं स्थानम् । तं कमिव ? । चाण्डालकूपमिव । कथंभूतं चाण्डालकूपम् ? । आरोपितास्थिशकलं आरोपितान्यस्थिशकलानि यत्र स तम् । यथा अस्थियुक्तं कूपं वीक्ष्य नार्यस्तं परिहृत्य दूरतरं यान्तीत्यर्थः । तद्वत् स्थविरं दृष्ट्वा नार्यो दूरं यान्तीत्यर्थः ॥ १८ ॥ अथ संसारनिन्दास्वरूपं कथयन्नाह: १७. गर्भावासे शयित्वा कलिमलनिलये पूतिमध्ये जघन्ये स्त्रीकुक्षौ पीडिताङ्गः कथमपि विवरान्निर्गतः क्लेदलिप्तः । भूयस्तत्रैव रागप्रकृतिरिह नरो मन्दबुद्धिर्दुरात्मा ___ सोऽयं संसारचक्रे भ्रमति शठमये लोकमध्ये यथान्धः ॥१९॥ इह मनुजभवे मन्दबुद्धिर्नरो दुरात्मा सोऽयं भूयः पुनरपि तत्रैव जन्मस्थाने रागप्रकृतिः वर्तते । तत्रैव कुत्रैव ? । यो (? यत्र ) गर्भावासे शयित्वा कथमपि महता कष्टेन विवरात् योनियन्त्रानिर्गतः निसृतः । कथंभूते गर्भावासे ? । कलिमलनिलये कलिमलं जंबालं कर्दमस्वरूपं तस्य निलये गृहे । पुनः किंभूते गर्भावासे ? । पूतिमध्ये पूतिः रुधिरविकृतिमध्ये यत्र सः तत्र । पुनः कीदृशे गर्भावासे । जघन्ये सर्वार्थनिन्दास्पदे । कथंभूतो नरः । स्त्रीकुक्षौ पीडिताङ्गः पीडितं अङ्गं यस्य सः । पुनः क्लेदलिप्तः क्लेद उदररसस्तेन लिप्तः । एवंविधदुःखान्निर्गतः प्राणी भूयः पुनरपि स्त्रीजघने रज्यते। अतः अन्धत्वेनोपमीयते। यथान्धः शठमये शठस्वरूपसंसारे लोकमध्ये भ्रमति। तथा कामान्धो जीवः संसारचक्रे भ्रमति । शठा अन्धं हसन्ति तथा संसारे कामी हस्यते ॥ १९॥ । अथ यौवनरहितानां कामनैरस्यमाह१८. एते ते दिवसास्त एव तरवस्ताश्च प्रगल्भाः स्त्रियस् __ तच्चैवाम्रवनं स कोकिलरवः सोऽयं वसन्तोत्सवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188