Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 180
________________ वैराग्यशतकाधिकश्लोकाः। इतीयं सामग्री भवति हरि(?र)भक्तिं स्पृहयतां __ वनं वा गेहं वा सदृशमुपशान्तैकमनसाम् ॥ २८ ॥ . उपशान्तैकमनसां सतां वनं वा गेहं सदृशं सममेव । कथंभूतानाम् ? । हरभक्तिः (?क्तिं) स्पृहयतां महेश्वरसेवां वाञ्छमानानाम् । कथम् ? । तदाह -पुण्ये पवित्रे अरण्ये वने स्थितिः स्थानम् । हंसहरिणः सह परिचयो भवति । फलैर्मेध्या पवित्रा वृत्तिर्जीवनम् । प्रतिनदि नदी नदी प्रति दृषदस्तलान्येव निवेशनस्थानानि । इतीयं सामग्री भवति । पूर्वोक्तानां हरभक्ति स्पृहयताम् ॥ २८ ॥ सांप्रतं योगस्वरूपमाह२७. शरच्चन्द्रज्योत्स्नाधवलिततले कापि पुलिने सुखासीनाः सान्द्रध्वनिषु रजनीषु धुसरितः । भवाम्भोधौ मनाः शिव शिव शिवेत्यार्तवचसः कदा श्यामानन्दोद्गतबहुलबाष्पाकुलदृशः ॥ २९ ॥ वयं कदा ईदृशा भविष्यामः ? । क्वापि धुसरितो गङ्गायाः पुलिने तटे रजनीषु सुखासीनाः सुखं स्थिताः । कथंभूते पुलिने ? । शरच्चन्द्रज्योत्स्नाधवलिततले शरच्चन्द्रज्योत्स्नया धवलितं तलं यस्य तत् तस्मिन् तटे। कथंभूतासु रजनीषु । सान्द्रध्वनिषु निबिडशब्देषु(?ब्दासु)। रात्रौ सामान्यतः शब्दो भवत्येव । कथंभूता वयम् ? । भवाम्भोधौ मनाः संसारसमुद्रबुडिताः । पुनः कथंभूताः?। शिव शिव शिवेत्याविचसः। हे शिव, हे शिव वीप्सायां वर्तमानस्य द्वित्वं त्रित्वं वा, इत्यातं वचो येषां ते। पुनः श्यामानन्दोद्गतबहुलबाष्पाकुलदृशः। आनन्दात् उद्गतं बहुलं धनं बाष्पमश्रुजलं तेनाकुला दृशः। ततः कर्मधारयः । श्यामाश्च आनन्दोद्गतबहुलबाष्पाकुला दृशो येषां ते तथा । एवंविधाः कदा भविष्यामः ।। २९ ।। पुनः शमस्वरूपमाह२८. अनल्पं जल्पन्तः कति च विगता नो यमपुरं ___ पुरस्तादस्माकं विधृतवदनाव्याप्तनयनाः । अतीता यद्येवं न हि निजहितं चेतसि वयं चलन्मेहोदाराद् विषयविधिजातादनशिनः ॥ ३० ॥ ___ अस्माकं पुरस्तात् अनल्पं जल्पन्तः बहुतरं कथयन्तः सन्तः कति च यमपरं नो विगताः । कथंभूताः ? । विधृतवदनाव्याप्तनयनाः। विधृतं अस्थिरं च तत् वदनं वकं च •विधृतवदनम् । विधृतवदने अव्याप्ते अप्रकाशयुक्ते नयने लोचने येषां ते विधृतवदनाव्याप्तनयनाः। यदि चेत् एवं अमुना प्रकारेण अतीताः अतिक्रान्ता गताः तथापि वयं चेतसि निजहितं प्रति १९ शतकत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188