Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 178
________________ वैराग्यशतकाधिकश्लोकाः। १४३ किं करोमि तदाह । असतां मुखं नो पश्यामि । धनिनां द्रविणवतां अश्रवां श्रवणम(? वणा) योग्यां वाचं न शृणोमि । शीर्षच्छेदस्य गुणः । अहरहः कुस्वामिनां (नं) मिथ्यागुणकीर्तनों संस्तौमि वचनाभावात् । च पुनरहमादृतबन्धुने वा उद्धतभुजो वृत्तानुबन्धे स्थितः । वृत्तंआचारस्तस्यानुबन्धः सेवनं तत्र स्थितः । एतत्स्वरूपं जीवतामेव न मृतानाम् । अतः शीर्षे छिन्ने सर्व सुखमभूदिति निर्वेदः ॥ २२ ॥ अथ नारीनेत्रस्वरूपज्ञानानैपुण्यं स्वस्मिन्नारोपयन्नाह२१. व्यालुम्पन्ति समाधिमाधिविधुरं चैता नमस्कुर्वते लोभाभावविशेषभूरिविरहे संप्राप्य यूनां गणम् । एतासां नु वयं न चम्पकरुचिष्वङ्गेष्वनङ्गीकृतं प्रामाण्ये हरिणीदृशां बत दृशोरन्तःस्थिता ब्रह्मणि ॥ २३ ॥ एता नार्यो यूनां गणं संप्राप्य समाधि व्यालम्पन्ति स्वसमाधिं त्यजन्ति । च पुनः आधिविधुरं मानसव्यथाविह्वलं यथा स्यात्तथा नमस्कुर्वते नमस्कारं कुर्वन्ति मन्मथपीडिताः सत्यः । कस्मिन् ? । लोभाभावविशेषभूरिविरहे लोभस्याभावो लोभाभावो लोभाभावस्य विशेषस्तस्माद् यो भूरिविरहः प्रचुरवियोगस्तस्मिन् । लोभं विना विशेषविरहपीडने सति कामिन्यः पूर्वोक्तां चेष्टां कुर्वन्ति । कथंभूतं यूनां गणम् ? । चम्पकरुचिष्वङ्गेषु अनङ्गीकृतं नार्यङ्गेष्वनङ्गतया व्याप्तम् । अथ कविस्तत्स्वरूपाज्ञातत्वं प्रकटयति । नु इति वितर्के । वयं एतासां हरिणीदृशां दृशोः ] ब्रह्मणि ज्ञाने बत आश्चर्ये न अन्तस्थिता अन्तं न प्राप्ताः । कथंभूते ब्रह्मणि ? । प्रामाण्ये सत्यरूपे । अनेन प्रामाण्यज्ञानस्यापि वयं ज्ञातुमसमर्थाः । नारीभिर्जगद् वश्यते इत्यर्थः ॥ २३ ॥ अथ योगमार्गस्वरूपं आविःकुर्वन्नाह२२. गात्रं पात्रं प्रथमवयसि प्रेयसीनां स्तनानाम् आश्लेषाणां तदिह मधुनो वन्य मन्य कृतार्थम् । ये नासीने त्वयि गिरितटे श्लिष्टनासाग्रदृष्टौ हर्षस्पर्श जहति हरिणश्रेणयः कायकण्डूः ॥ २४ ॥ हे वन्य हे तापस ! मन्य कृतार्थ कृतकृत्यं जानीहि । कथम् ? । तद् गात्रं प्रथमवयसि प्रेयसीनां स्तनानां आश्लेषाणां इह जन्मनि मधुनो मदस्य वा पात्रं स्थानं अभूत् । एते. पदार्था अस्मिन् शरीरे बभूवुः । अधुना वन्यावस्थायां ये न । त्वयि गिरितटे आसीने सति हरिणश्रेणयो • मृगपतयो हर्षस्पर्श यथा स्यात्तथा कायकण्डूर्जहति त्यजन्ति चेत्यर्थः । पूर्व इदं शृङ्गारास्पदं इदानीं वैराग्यपूरितमवस्थाभेदात् ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188