Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 177
________________ भर्तृहरिकृत - शतकत्रयम् वातः सोऽपि च दक्षिणो धृतिकरः सेयं सचन्द्रा निशा हा तारुण्य विना त्वयाऽद्य सकलं पालालपूलायते ॥ २० ॥ हे तारुण्य तरुणभाव ! त्वया विनाऽद्य जरावस्थायां वसन्तसमये सकलं समयं पालाल - पूलायते शुष्कतृणपुंजायते । यथा पालालपूलको निबन्धोऽदृढस्तथा यौवनमन्तरे[ण] न किंचित् सुखमनुभूयते । कथम् ? । तदेवाह । एते ते दिवसाः । दिवसानां न भिन्नता । तरवश्चम्पकबकुलजातीकुन्दमचकुन्दाद्यास्त एव नान्यथा । चापरम् । ताः स्त्रियः प्रगल्भाः सुरतोपक्रमनिपुणाः । च पुनराम्रवनं तदेव । कोकिलरवो वसन्तोत्सवः स एव । सोऽपि दक्षिणो धृतिकरो वातः । दक्षिणो दक्षिणदिग्भवः । धृतिः संतोषस्तं करोतीति धृतिकरः । सेयं सचन्द्रा रात्रिश्चान्द्री रात्रिः । तथापि तारुण्यं विना सर्व पलालपूलीयवन्निरर्थकमित्यर्थः । तारुण्यदर्पोद्ध (?) राणां सर्व मन्मथजनकं न तु वृद्धानाम् ॥ २० ॥ १४२ मूर्खाणां तत्त्वज्ञानं न भवति तत्स्वरूपं निरूपयति१९. विनिष्ठं करकर्परं पथि गतं मूर्खेजडैर्धिक्कृतं विप्रैस्तत्त्वविचिन्तकैर्न मसितं स्वात्मप्रबोधैर्नुतम् । नृत्यन्तं च दिगम्बरं च जटिलं बालैश्च मुक्तं जडं डिम्भावोपहसन्ति चत्वरपथे दत्त्वा मुहुः स्फाटिकाम् ॥ २१ ॥ दिगम्बरं नृत्यन्तं प्रति डिम्भाः बालाः स्फाटिकां तालिकां दत्त्वा हसन्ति । कस्मिन् ? । चत्वरपथे । कथम् ? | मुहुः वारं वारम् । कथंभूतं दिगम्बरम् ? । विभिष्ठं वेदनं वित् तत्र निष्ठं विन्निष्ठं ज्ञानरूपम् । करकर्परं करे कर्परं मृद्भाण्डं यस्यासौ करकर्परस्तम् । पुनः कथंभूतम् ? | पथि गतं मार्गस्थम् । पुनः कथंभूतम् । मूर्खेर्जनैर्धिक्कृतम् । पुनः किंभूतम् ? । तस्त्वविचिन्तकैविप्रैर्नमसितं नमस्कृतम् । पुनः कीदृशम् ? | स्वात्मप्रबोधैर्नुतं स्तुतम् । 'णु स्तुता' विति वचनात । पुनः कीदृशम् ?। जटिलं जटायुक्तम् । पुनः कथंभूतम् ? । बालैरज्ञैर्मुक्तं त्यक्तम् । अत एव जडम् । एवंविधं तपोधनं मूर्खाः हसन्ति । न तत्राश्चर्यम् ॥ २१ ॥ अधुना स्वनिर्वेदं निवेदयन्नाह । निर्वेदः स्वावमाननम् २०. नो पश्याम्यसतां मुखं न धनिनां वाचं शृणोम्यश्रवां नो मिथ्यागुणकीर्तनै रहरहः संस्तौमि कुस्वामिनम् । नाहं चादृतबन्धुरुद्धतभुजो वृत्तानुबन्धे स्थितो दोषोपाश्रयसंग्रहव्यसनिनि च्छिन्नेऽधुना मूर्द्धनि ॥ २२ ॥ अधुना मूर्धनि मस्तके छिन्ने सति एवंविधमभूदित्यध्याहार्यम् । कथंभूते मूर्धनि । . दोषोपाश्रय संग्रहव्यसनिनि दोषाणामुपाश्रयस्तस्य संग्रहस्तस्य व्यसनं विद्यते यस्य स तस्मिन् For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188