Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 163
________________ १२८ भर्तृहरिकृत-शतकत्रयम् परिशिष्टम् । [टीकाकारेण धनसारेण विदुषा शतकत्रयमध्ये यानि पद्यानि शेषरूपाणि मत्वा मूलमन्थे न स्वीकृतानि, तेषां पद्यानां पश्चात् परिशिष्टरूपां टीकां कृत्वा ग्रन्थान्ते तानि पद्यानि संकलितानि सन्ति ।] अथ भर्तृहरटीकायां शेषत्यक्तकाव्यानां टीका लिख्यते । नीतिशतकमध्यान्येतानि [पद्यानि] अथ सज्जनस्तुतिमाह१. अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारसंतुष्टैः। परपरिवादनिवृत्तैः क्वचित् कचिन् मण्डिता वसुधा ॥ ७८ ॥ अप्रियेत्यादि । वसुधा पृथिवी क्वचित् प्रदेशे स्थाने एवंविधैः पुंभिर्मण्डिता अलंकृता वर्तते। कीदृशैः ?। अप्रियवचनदरिद्रैः अप्रियवचनेषु दरिद्राः निःस्वास्तैरप्रियवचनरहितैरित्यर्थः। पुनः कीदृशः । प्रियवचनाढ्यैः प्रियवचनैराढ्याः प्रियवचनाढ्यास्तैः मधुरवचनभृतैः । पुनः कीदृशैः ? । खदारसंतुष्टैः स्वदारेषु निजकलत्रेषु संतुष्टाः तृप्ताः स्वदारसंतुष्टास्तैः । पुनः कीदृशैः ? । परपरिवादनिवृत्तैः परेषां परिवादो निन्दा परपरिवादस्तस्मान्निवृत्ताः विरतास्तैरिति । मण्डनमपि क्वचिद् भवति ॥ ७८ ॥ अथ दैवगतिस्वरूपमाह२. अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । __ जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे नजीवति ॥१२॥ अरक्षितं वस्तु दैवरक्षितं सत् तिष्ठति स्थिरीभवति । सुरक्षितं यत्नरक्षितमपि दैवहतं सत् विनश्यति विशेषेण नाशमुपयातीत्यर्थः । एतद विशेषतो द्रढयति-अनाथोऽपि दीनोऽपि वने विसर्जितः सन् जीवति दैवानुकूलतः । कृतप्रयत्नोऽपि पुमान् गृहेऽपि स्थितो दैवप्रतिकूलतो मन्दभाग्येन न जीवति म्रियते । ततो दैवमेव प्रमाणम् ॥ ९२ ॥ अथ स्वकीय- परकीयौ हिताहितस्वरूपेण हेयोपादेयतया प्ररूपयति३. परोऽपि हितवान् बन्धुबन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ ९४ ॥ हितवान् गुणकारकः परोऽपि आत्मव्यतिरिक्तः [ अपि ] परः शत्रु बन्धुः स्वजनो ज्ञेयः। अहितः विरूपकर्ता बन्धुरात्मीयोऽपि परः शत्रुर्ज्ञातव्यः । एतदेव दृष्टान्तेन द्रढयति-पथा देहजो देहादुत्पन्नो व्याधिः रोगः अहितः संतापकारी स्यात् । आरण्यं वनोद्भवमौषधं मेषजं. हितं सुखकृत् स्यात् ॥ ९४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188