________________
१२८
भर्तृहरिकृत-शतकत्रयम्
परिशिष्टम् । [टीकाकारेण धनसारेण विदुषा शतकत्रयमध्ये यानि पद्यानि शेषरूपाणि मत्वा मूलमन्थे न स्वीकृतानि, तेषां पद्यानां पश्चात् परिशिष्टरूपां टीकां कृत्वा ग्रन्थान्ते तानि पद्यानि संकलितानि सन्ति ।] अथ भर्तृहरटीकायां शेषत्यक्तकाव्यानां टीका लिख्यते ।
नीतिशतकमध्यान्येतानि [पद्यानि] अथ सज्जनस्तुतिमाह१. अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारसंतुष्टैः।
परपरिवादनिवृत्तैः क्वचित् कचिन् मण्डिता वसुधा ॥ ७८ ॥
अप्रियेत्यादि । वसुधा पृथिवी क्वचित् प्रदेशे स्थाने एवंविधैः पुंभिर्मण्डिता अलंकृता वर्तते। कीदृशैः ?। अप्रियवचनदरिद्रैः अप्रियवचनेषु दरिद्राः निःस्वास्तैरप्रियवचनरहितैरित्यर्थः। पुनः कीदृशः । प्रियवचनाढ्यैः प्रियवचनैराढ्याः प्रियवचनाढ्यास्तैः मधुरवचनभृतैः । पुनः कीदृशैः ? । खदारसंतुष्टैः स्वदारेषु निजकलत्रेषु संतुष्टाः तृप्ताः स्वदारसंतुष्टास्तैः । पुनः कीदृशैः ? । परपरिवादनिवृत्तैः परेषां परिवादो निन्दा परपरिवादस्तस्मान्निवृत्ताः विरतास्तैरिति । मण्डनमपि क्वचिद् भवति ॥ ७८ ॥
अथ दैवगतिस्वरूपमाह२. अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । __ जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे नजीवति ॥१२॥
अरक्षितं वस्तु दैवरक्षितं सत् तिष्ठति स्थिरीभवति । सुरक्षितं यत्नरक्षितमपि दैवहतं सत् विनश्यति विशेषेण नाशमुपयातीत्यर्थः । एतद विशेषतो द्रढयति-अनाथोऽपि दीनोऽपि वने विसर्जितः सन् जीवति दैवानुकूलतः । कृतप्रयत्नोऽपि पुमान् गृहेऽपि स्थितो दैवप्रतिकूलतो मन्दभाग्येन न जीवति म्रियते । ततो दैवमेव प्रमाणम् ॥ ९२ ॥
अथ स्वकीय- परकीयौ हिताहितस्वरूपेण हेयोपादेयतया प्ररूपयति३. परोऽपि हितवान् बन्धुबन्धुरप्यहितः परः ।
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ ९४ ॥ हितवान् गुणकारकः परोऽपि आत्मव्यतिरिक्तः [ अपि ] परः शत्रु बन्धुः स्वजनो ज्ञेयः। अहितः विरूपकर्ता बन्धुरात्मीयोऽपि परः शत्रुर्ज्ञातव्यः । एतदेव दृष्टान्तेन द्रढयति-पथा देहजो देहादुत्पन्नो व्याधिः रोगः अहितः संतापकारी स्यात् । आरण्यं वनोद्भवमौषधं मेषजं. हितं सुखकृत् स्यात् ॥ ९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org