________________
नीतिशतकाधिकश्लोकाः।
१२९ . अथ दुर्जनस्नेहं सज्जनकोपतुल्यं निरूपयति४. 'न भवति भवति च न चिरं भवति चिरं चेत् फले विसंवादः।
कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ ९२ ॥
सत्पुरुषाणां कोपः क्रोधः नीचानां दुर्जनानां स्नेहेन मित्रत्वेन तुल्यः सदृक् । कथम् ? । प्रथमं सज्जनानां कोपो न भवति नास्ति । च पुनर्भवति तदा चिरं न भवति । क्षणाद् यातीत्यर्थः । चेच्चिरं भवति तदा फले अग्रे कार्योत्पन्ने विसंवादः फलदायी न भवति । निष्फलो भवतीत्यर्थः । दुर्जनस्नेहोऽपि न भवति । यदि भवति तर्हि चिरं न भवति । चिरं भवति चेत् फले कार्यकाले विसंवादः स्यात् , स्नेहः सफलो न भवति । अत एव सत्पुरुषक्रोधतुल्यः ॥ ९२ ॥
अथ नियतिस्वरूपेण स्वोपदेशमाह- . . ५. यदभावि न तद् भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषन्नोऽयमगदः किं न पीयते ॥ ९३ ॥
हे पुरुष ! इति अयं [चिन्ताविषघ्नः] अगदस्त्वया किं न पीयते । अगद औषधम् । इतीति किम् ? । यद् वस्तु अभावि तन्न भावि । यत्र भवने नियतिः नास्ति तत् कदापि न भवति । चेद् भावि भवनशीलं कार्य तदन्यथा न भवति । सदैव भवतीत्यर्थः । एवं ज्ञात्वा किं मनसि दोदूयसे- ममेदं जातमिदं न जातमिति ॥ ९३ ॥ .... अथ दानविलम्बो न कार्य इति निवेदयति६. दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः।
पश्येह मधुकरीणां संचितमर्थ हरन्त्यन्ये ॥ ९४ ॥
पुरुषेण धनं देयं भोज्यम् । विभवे सति संग्रहो न कार्यः । अत्र निदर्शनम् - पश्य विलोकय । इहात्र लोके मधुकरीणां भ्रमरीणां संचितमर्थ एकत्रीकृतं मधु अन्ये भिल्ला हरन्ति .गृहन्ति । पक्षे अर्थ द्रव्यम् ।
अथ राजभिर्गुणिन एव पालनीयास्तदर्थमाह- ७. अविज्ञानाद् राज्ञो भवति नयहीनः परिजनसू
। ततस्तत्प्राधान्याद् भवति न समीपे बुधजनः । ... बुधैस्त्यक्ते राज्ये भवति न च नीतिगुणवती ... विनष्टायां नीत्यां सकलमपि शुष्येन् नृपकुलम् ॥ ९९ ॥
राज्ञः अविज्ञान ज्ञानाभावात् परिजनः परिवारो नयहीनो भवति कुमार्गचारी भवति । ततः तस्मात् कारणात् तत्प्राधान्यात् अन्यायिपरिजनव्यापारात् बुधजनः पण्डितपुरुषः राजसमीपे न भवति नागच्छति । मूर्खाः बुधजनप्रवेशं न ददाति (? ददति)। च पुनः बुधैः
१७ शतकत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org