Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 142
________________ बैराग्यशतकम् इयं बाला मां प्रत्यनवरतमिन्दीवरदलप्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनेया । [ ३.६९-७१] तो मोहोऽस्माकं स्मरकुसुमबाणव्यतिकरज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ ६९ ॥ [ इयं बाला मां प्रति चक्षुर्नेत्रं अनवरतं निरन्तरं किं क्षिपति । ] कथंभूतं नेत्रम् ? । इन्दीवरदलप्रभाचोरं इन्दीवरस्य कमलस्य दलं इन्दीवरदलं तस्य प्रभां चोरयतीति इन्दीवरदलप्रभाचौरम् | अनया किमभिप्रेतं किं वाञ्छितम् । अस्माकं मोहो गतः । स्मरकुसुमबाणव्यतिकरज्वरज्वाला शान्ता । वराकी तदपि न विरमति ॥ ६९ ॥ रम्यं हर्म्यतलं न किं वैसतये श्रव्यं न गेयादिकं किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये । किं तद्भान्तपतत्पतंग पवनव्यालोलदीपाङ्कर च्छायाचञ्चलमाकलय्य सकॅलं सन्तो वनान्तं गताः ॥ ७० ॥ 2013 सन्तः सत्पुरुषा वनान्तं गताः । किमिति संभावनायाम् । तेषां वसतये निवासाय हर्म्यातलं रम्यं नाभूत् । [ किमिति संभावनायाम् । वा अथवा श्रव्यं श्रवणार्ह गेयादिक गीतादि नाभूत् । अपि तु बभूव । वा अथवा किमिति संभावनायाम् । प्राणसमासमागमसुखं प्राणसमा प्राणतुल्या प्रिया तस्याः समागमः सङ्गः तस्य सुखं प्राणसमासमागमसुखं । अधिकप्रीतये अतिप्रसन्नतायै नाभूत् । अपि तु अभूत् । ] तथापि सन्तो वनान्तं गताः वनं सेवयामासुः । [ तु पुनः किं किमर्थं वनं सेवयामासुः ? । उद्भ्रान्तपतत्पतंगपवनव्यालोलदीपाङ्कुरच्छायाचश्चलं उद्भ्रान्तः चक्षुर्लेभेन भ्रमं प्राप्तः योऽसौ पतत्पतंगः तस्य पवनेन व्यालोला चञ्चला या दीपाङ्कुरस्य छाया कान्तिस्तद्वच्चञ्चलं ] सकलं जीवलोकं आकलय्य विचिन्त्य हृदये ज्ञात्वा इत्यर्थः ॥ ७० ॥ किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वर्कलेभ्यश्च शाखाः । वीक्ष्यन्ते यन्मुखानि प्रसभमुपगतप्रश्रयाणां खलानां • दुःखोपात्ताल्पवित्तस्मयवैशपत्र नानर्तित भ्रूलतानि ॥ ७१ ॥ १ च. छ. ज. चौरं । २ ज. 'मनसा । हं. कोशे प्रथमपादो लभ्यते । ३ हं. वसंत• समये । ४ ज. श्राव्यं । ५ ख. घ. प्राणसमं । ६ ख. घ. नैवाधिकं । ७ ख. घ. सततं । ८ घ. ज. निर्जरा । ९ हं. वल्कलिभ्यश्च । १० च. 'चित्तस्मय' । ११ ज. 'विष' । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188