Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 147
________________ १९२ भर्तृहरिकृत-शतकत्रयम् [३. ८३-८५] यत्वादात् यस्य ब्रह्मणो रसात् त्रैलोक्यराज्यादयो विषयाः विरसा भवन्ति मोक्षादाय (हं. 'यि ) कत्वात् ॥ ८२ ॥ किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः ___वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः । मुक्त्वैकं भवभारदुःखरचनाविध्वंसकालानलं खात्मानन्दपदप्रवेशकलनं शेषा वणिग्वृत्तयः ॥ ८३ ॥ वेदैः किं, स्मृतिभिः किं, पुराणपठनैः किं, शास्त्रैः किम् । किं० शास्त्रैः । महाविस्तरैः महान् विस्तरो येषां ते महाविस्तरास्तैः । [अन्यच्च ] कर्मक्रियाविभ्रमैः किम् । किं० कर्मक्रियाविभ्रमैः । स्वर्गग्रामकुटीनिवासफलदैः स्वर्गग्रामस्य कुटी स्वर्गग्रामकुटी तस्याः निवासफलं ददतीति स्वर्गग्रामकुटीनिवासफलदास्तैः । एकं स्वात्मानन्दपदप्रवेशकलनं मुक्त्वा ( छ. भव्यं)। स्वकीयोऽसौ आत्मा स्वात्मा तस्य यत् आनन्दपदं स्वात्मानन्दपदं तस्य प्रवेशकलनं स्वात्मानन्दपदप्रवेशकलनं । [ किं० तत् ? । भवभारदुःखरचनाविध्वंसकालानलं ।] शेषाः क्रियाः वणिग्वृत्तयः वणिगाचरणम् ॥ ८३॥ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगेपूराः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यत् प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ८४ ॥ हे उत्तमाः ! ब्रह्मणि परब्रह्मणि आसक्तचित्ता भवत (क. च. भवतु; ख. ग. घ. भवन्तु ) यूयं । किं कर्तुम् ? । भवभयाम्भोधिपारं तरीतुं । भवभयाम्भोधेः पारः भवभयाम्भोधिपारस्तम् । शेष समस्तमस्थिरम् । किं किम् ? । आयुः कल्लोललोलं समुद्रकल्लोलवच्चपलम् । यौवनश्रीः कतिपयदिवसस्थायिनी कतिपयदिवसान् स्थातुं शीलमस्याः सा कतिपयदिवसस्थायिनी। अर्थाः संकल्पकल्पाः संकल्पतुल्याः । भोगपूराः (छ. पूगाः) घनसमयतडिद्विभ्रमाः घनसमयतडिद्वत् विभ्रमो येषां ते घनसमयतडिद्विभ्रमाः । प्रियाभिः प्रणीतं यत् कण्ठश्लेषोपगूढं तदपि न चिरं । तस्मिन् कारणे परब्रह्म एव शाश्वतम् ॥ ८४॥ ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः। शेफरीस्फुरितेनाब्धेः क्षुब्धता जातु जायते ॥ ८५ ॥ १ ग. भवबंध घ. भुवभार। २६ कालानिलं। ३ छ. भोगपूगाः। ४ ख. ग.. भवतु। ५ घ. शबरी । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188