Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 150
________________ [३.९१-९३] वैराग्यशतकम् विदुषा पण्डितेन आत्मश्रेयसि स्वमोक्षोपाये (हं. ख. च. सुमोक्षाय ) तावदेव महान् प्रयत्नः कार्यः । [यावदिदं कलेवरगृहं शरीरमन्दिरं खस्थं वर्तते समाधानपरायणं वर्तते । चान्यत् । यावत् जरा दूरे वर्तते । चान्यत् यावत् इन्द्रियशक्तिः अप्रतिहता वर्तते । चान्यत् । यावदायुषः क्षयो नास्ति । तावदेव स्वहिते प्रयत्नः कार्यः।] [तु पुनः] भवने [आदी] (च. उद्दीपिते) सति प्रदीप्ते सति । (ख. च. हि निश्चितम् ) । कूप (हं. छ. प्रकूप) खनने कीदृशः प्रत्युद्यमः । ननु प्रदीपने प्रदीप्ते सति कूपं खनितुं न शक्यते ॥ ९०॥ नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता खड्गागः करिकुम्भपीठदलनैकिं न नीतं यशः। कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ ९१ ॥ भुवि पृथिव्यां विद्या न अभ्यस्ता । किं० विद्या ?। वादिवृन्ददमनी । पुनः किं० विद्या ? । विनीतोचिता विनयवतः पुरुषस्य योग्या । खगाणैः कृपाणधाराभिः यशो नाकं स्वर्गलोकं प्रति न नीतम् । किं० खड्गाप्रैः ? । करिकुम्भपीठदलनैः करिणां कुम्भपीठं करिकुम्भपीठं तद्दलने शीलं येषां ते करिकुम्भपीठदलनास्तैः । चान्यत् । चन्द्रोदये कान्ताकोमलपल्लवाधररसो न पीतः । अहो इति खेदे । तारुण्यं यौवनं निष्फलमेव गतम् । किंवत् । शून्यालये दीपवत् ॥ ९१ ॥ ज्ञानं सतां मानमदादिनाशनं केषां चिदेतन्मदमानकारणम् । स्थानं विविक्त यमिनां विमुक्तये कामातुराणामतिकामकारणम्॥९१ सतां सत्पुरुषाणां ज्ञानं मानमदादिनाशनं भवति । केषां चिदधमानां एतत ज्ञानं मदमानकारणं भवति । अमुमेवार्थ कविदृष्टान्तेन द्रढयति। यमिनां मुनीनां विविक्तं स्थानं एकान्तप्रदेशः विमुक्तये भवति संसारोच्छेदनाय स्यात् । कामातुराणां पुरुषाणां तदेव विविक्तं . निर्जन (हं. नियंजनं ) जनरहितं [स्थानं] अतिकामकारणं भवति कामविकाराय स्यात् ॥१२॥ जीर्णा एव मनोरथाः खहृदये याँतं जरी यौवनं हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां योता गुणज्ञैर्विना । किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोऽक्षमी .. ह्याज्ञातं त्रिपुरान्तकाङ्गियुगलं मुक्त्वाऽस्ति नान्या गतिः ॥९३ १ज. 'दन्तिदमनी। २ ज. दन्तदलनैः। ३ ख. घ. नीतं न नाकं। ४६. क. ग. निम्फल। ५. विमुक्त। ६ ग. सुहृदये। ७ ख. घ. ज. जातं; छ. व्याप्तं । ८क. 'जरा। ९ख. घ. जाता। १० घ. कामः। ११ ख. ग. च. ह्याझानं घ. शशान । १२ ज. युगुलं। १३ ग. मुक्तास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188