Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 159
________________ भर्तृहरिकृत - शतकत्रयम् [३. ११४-११६] 1 सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः । तदनु तत्क्षणभङ्ग करोति चेदहह कष्टमपण्डितता विधेः ॥ ११४ ॥ अह ह कष्टम् । विधेर्देवस्य अपण्डितता विलोक्यतां मौढ्यं निरीक्ष्यताम् । तावत् पूर्वं अशेषगुणाकरं पुरुषरत्नं सृजति । किं० पुरुषरत्नम् ? । भुवः पृथिव्या अलंकरणं भूषणम् । चेत् यदि भूषणं तदपि पुरुषरनं [ तत्क्षणभङ्ग ] तत्क्षणमेव भनि करोति तत्कालं भङ्क्ते । तदा विधेर्मोढ्यमेव । चेत् तादृशं पुरुषरत्नं वसुधामण्डले अमरत्वं न प्राप्नोति तदा चिरजीव्यपि वरम् ॥११४॥ * जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं २२४ श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजखिचक्रम् । संजातव्यर्थ पक्षाः परहितकरणे नोपरिष्टान्न चाधो ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ ११५ ॥ स कूर्मः एक एव जातः येन पृथुर्भुवनभराय विशालपृथ्वीमण्डलभाराय पृष्ठं अर्पितम् । ध्रुवस्य ध्रुवमण्डलस्य जन्म श्लाघ्यम् । यत्र यस्मिन् ध्रुवे नियमितं नियन्त्रितं तेजस्विचक्रं भ्रमति । तावन्तरेणापरे जन्तवः ब्रह्माण्डोदुम्बरान्तः मशकवत् जातनष्टाः वर्तन्ते । ब्रह्माण्ड एव [3]दुम्बरः ब्रह्माण्डोदुम्बरः तस्यान्तर्मध्ये ब्रह्माण्डोदुम्बरान्तः मशकपक्षिवत् जाताश्च नष्टाश्च जातनष्टाः । किं० अपरे जन्तवः ? । परहितकरणे परवाञ्छितपूरणे न उपरिष्टात् चान्यनाधः । [ पुनः किं० जन्तवः ? | ] संजातव्यर्थपक्षाः संजातः समुत्पन्नः व्यर्थो निरर्थकः पक्षो येषां ते संजातव्यर्थपक्षाः । उभयोरपि पक्षयोरिहलोकपरलोकलक्षणयोः एकोऽपि न किंचित् ॥ ११५ ॥ "क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणमपि च संपूर्णविभवः । जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुर् नरः संसाराङ्के विशति यमधानीयव निकाम् ॥ ११६ ॥ नरः प्राणी संसाराङ्के भवोत्सङ्गे यमधानीयवनिकां तिरस्करणीं विशति प्रविशति । कि० नरः ? । जराजीर्णैरङ्गैर्वलीमण्डिततनुर्नट इव वर्तते । किं कृत्वा ? | क्षणं बालो भूत्वा क्षणमपि युवा भूत्वा । किं० युवा ? । कामरसिकः कामस्य रसेन वर्तत इति कामरसिकः । तेन दीव्यति संश्लिष्टं तरतीकण् चरत्यपि इकण् प्रत्ययः । पुनः किं कृत्वा ? । वित्तैर्हीनो अपि च क्षणं संपूर्णविभवो भूत्वा । यममन्दिरे प्रविष्टो भवति ॥ ११६ ॥ 'भूत्वा १ च. छ. ज. कोशेषु लभ्यते । २ भुवि भवः इत्यपि । ३ तदपि । ४ च. छ. ज. कोशेषु दृश्यते । ५ सर्वेषु कोशेषु अधिकत्वेन दृश्यते । ६ ग. च. ज. जवनिकाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188