________________
भर्तृहरिकृत - शतकत्रयम्
[३. ११४-११६]
1
सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः । तदनु तत्क्षणभङ्ग करोति चेदहह कष्टमपण्डितता विधेः ॥ ११४ ॥ अह ह कष्टम् । विधेर्देवस्य अपण्डितता विलोक्यतां मौढ्यं निरीक्ष्यताम् । तावत् पूर्वं अशेषगुणाकरं पुरुषरत्नं सृजति । किं० पुरुषरत्नम् ? । भुवः पृथिव्या अलंकरणं भूषणम् । चेत् यदि भूषणं तदपि पुरुषरनं [ तत्क्षणभङ्ग ] तत्क्षणमेव भनि करोति तत्कालं भङ्क्ते । तदा विधेर्मोढ्यमेव । चेत् तादृशं पुरुषरत्नं वसुधामण्डले अमरत्वं न प्राप्नोति तदा चिरजीव्यपि वरम् ॥११४॥ * जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
२२४
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजखिचक्रम् । संजातव्यर्थ पक्षाः परहितकरणे नोपरिष्टान्न चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ ११५ ॥
स कूर्मः एक एव जातः येन पृथुर्भुवनभराय विशालपृथ्वीमण्डलभाराय पृष्ठं अर्पितम् । ध्रुवस्य ध्रुवमण्डलस्य जन्म श्लाघ्यम् । यत्र यस्मिन् ध्रुवे नियमितं नियन्त्रितं तेजस्विचक्रं भ्रमति । तावन्तरेणापरे जन्तवः ब्रह्माण्डोदुम्बरान्तः मशकवत् जातनष्टाः वर्तन्ते । ब्रह्माण्ड एव [3]दुम्बरः ब्रह्माण्डोदुम्बरः तस्यान्तर्मध्ये ब्रह्माण्डोदुम्बरान्तः मशकपक्षिवत् जाताश्च नष्टाश्च जातनष्टाः । किं० अपरे जन्तवः ? । परहितकरणे परवाञ्छितपूरणे न उपरिष्टात् चान्यनाधः । [ पुनः किं० जन्तवः ? | ] संजातव्यर्थपक्षाः संजातः समुत्पन्नः व्यर्थो निरर्थकः पक्षो येषां ते संजातव्यर्थपक्षाः । उभयोरपि पक्षयोरिहलोकपरलोकलक्षणयोः एकोऽपि न किंचित् ॥ ११५ ॥
"क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणमपि च संपूर्णविभवः ।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुर्
नरः संसाराङ्के विशति यमधानीयव निकाम् ॥ ११६ ॥
नरः प्राणी संसाराङ्के भवोत्सङ्गे यमधानीयवनिकां तिरस्करणीं विशति प्रविशति । कि० नरः ? । जराजीर्णैरङ्गैर्वलीमण्डिततनुर्नट इव वर्तते । किं कृत्वा ? | क्षणं बालो भूत्वा क्षणमपि युवा भूत्वा । किं० युवा ? । कामरसिकः कामस्य रसेन वर्तत इति कामरसिकः । तेन दीव्यति संश्लिष्टं तरतीकण् चरत्यपि इकण् प्रत्ययः । पुनः किं कृत्वा ? । वित्तैर्हीनो अपि च क्षणं संपूर्णविभवो भूत्वा । यममन्दिरे प्रविष्टो भवति ॥ ११६ ॥
'भूत्वा
१ च. छ. ज. कोशेषु लभ्यते । २ भुवि भवः इत्यपि । ३ तदपि । ४ च. छ. ज. कोशेषु दृश्यते । ५ सर्वेषु कोशेषु अधिकत्वेन दृश्यते । ६ ग. च. ज. जवनिकाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org