________________
१२५
[३.१९७-११८]
वैराग्यशतकम् पातालान्न विमोचितो बत बलिनीतो न मृत्युः क्षयं
नोन्मृष्टं शशिलाञ्छनं च मलिनं नोन्मूलिता व्याधयः । शेषस्यापि धेरां विधृत्य न कृतो भारावतारः क्षणं
चेतः सत्परुषाभिमानगणनां मिथ्या वहन् लजसे ॥११७ ॥ - रे चेतः! मिथ्या सत्पुरुषाभिमानगणनां वहन् न लजसे न ब्रीडां वहसि । कथम् ? । बत इति खेदे । पातालात् बलिर्बन्धनान्न विमोचितः । अन्यच्च मृत्युर्यमः क्षयं न नीतः निधनं न प्रापितः । चान्यत् । शशिलाञ्छनं न उन्मृष्टं न परामृशत् ( ? °मृष्टम् ) । किं० शशिलाञ्छनम् । मलिनं मलीमसम्। चान्यत्। व्याधयो जन्तोरुपकारकृते नोन्मूलिताः। शेषस्थापि धरणीधरस्यापि धरां स्वस्कन्धे विधृत्य क्षणं क्षणमात्रं भारावतारो न कृतः । रे आत्मन् ! तदा त्वं सत्पुरुषत्वं किं वहसि ॥ ११७ ॥
. प्रशान्तशास्त्रार्थविचारचापलं निवृत्तनानारसकाव्यकौतुकम् । निरस्तनिःशेषविकल्पविस्तरं प्रपत्तुमन्विच्छति शंकरं मनः॥११८॥
मनः चेतः शंकरमनु प्रपत्तुमिच्छति । किं० मनः ? । प्रशान्तशास्त्रार्थविचारचापलं प्रशान्ताः ये शास्त्रार्थास्तेषां शास्त्रार्थानां विचारेषु चापलम् । पुनः किं० मनः । निवृत्तनानारसकाव्यकौतुकं निःशेषं वृत्तं प्रवृत्तं नानारसकाव्यकौतुकं यस्य तत् । पुनरपि किं० मनः।। निरस्तनि शेषविकल्पविस्तरं निरस्तः निराकृतः निःशेषो विकल्पानां विस्तरो यस्य तत् । एवंविध मनः शंकरं वाञ्छति ॥ ११८ ॥
॥ इति भर्तृहरटीकेयं तृतीयस्य वैराग्यशतकस्य समाप्ता ॥
१ख. घ. च, छ. ज. RASB 7747। २ ख. घ. छ. समुद्धृतो। ३ख. छ. मृत्युनं नीतः। ४ छ. शशलाञ्छनस्य । ५ छ. वरां । ६ छ. तारावतारः। ७ हं . गणितां; क. पदवीं। ८ क. खिद्यसे छ. विद्यसे । ९ च. छ. ज. कोशेषु प्राप्यते । १० छ. 'वाक्य। ११च. ज. विप्लवं । १२ च. छ. ज. प्रयातुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org