SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १२६ Jain Education International भर्तृहरिकृत - शतकत्रयम् [ टीकाकारकृता स्वप्रशस्तिः । ] श्रीपार्श्वनाथगणभृच्छिवदत्तनामा केशी तदन्वयगुरुः शिवदत्तशिष्यः । सूरिः स्वयंप्रभगुरुर्गुरुताधिकश्रीरत्नप्रभः प्रभुरनेकगुणः सदापि ॥ १ श्रीयक्षदेवसुगुरुर्गरिमागरिष्ठो जज्ञे सदैव यतिमार्गगुणाभिरामः । ऊकेशगच्छगगनांगणपूर्णचन्द्रः श्रीकक्कसूरिरपरः श्रुतवारिधिर्यः ॥ २ श्रीदेवगुप्तगुरुरर्चितपादपद्मः सेवापरैर्नरवरैः प्रथितावदातः । सिद्धाख्यया गुरुरति[र्]धृतिमानधीशः शिष्योऽस्य चारुरतितत्त्व विचारसारः ॥ ३ त्रिभिः कुलकम् (विशेषकम् ) । श्रीविक्रमार्कवरवच्छ (? त्स) रतोऽक्षवह्नि पञ्चैकवर्ष ( १५३५ ) इह योधपुरेऽतिरम्ये । श्रीसातले नरवरे वरमन्त्रिराजे श्रीजैत्रमत्रिणि महामहिमानिधाने ॥ ४ [२.१-६] श्रीसिद्धसूरिपदपङ्कजराजहंसः पूज्यप्रसादधवली कृतसत्प्रशंसः । रम्यां तु भर्तृहरकाव्य - नवीनटीकां यो व्याहरत् प्रमुदितो धनसार एषः ॥ ५ युग्मम् । वैययदोषकलितेन मया कदाचित् साहित्यलक्षणपदेषु यदा विरुद्धः । संदर्भ एष विदधे परिगूढमूढभावात् तदा हि विबुधैः परिसो (१ शो) ध्य एव ॥ ६ For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy