________________
१२३
[३. १११-१११] वैराग्यशतकम्
न प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययाः ... वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ॥१११॥
. अहो इति आश्चर्ये । अमलधियो निर्मलबुद्धयो दुःकरं कुर्वन्ति । दुःखेन क्रियत इति दुःकरम् । यत् केनापि तुच्छजनेन कर्तुं न शक्यते तदमलधीभिः क्रियते । किं वि० अमलधियः । ब्रह्मज्ञानविवेकिनः परब्रह्मस्वरूपवेत्तारः । दुःकरं किं कुर्वन्ति ? । यत् यस्मात् कारणात् ते अमलधियः एकान्ततो निःस्पृहाः संतः धनानि मुश्चन्ति । किं० धनानि ? । उपभोगभाज्यपि परिभोगं गतवन्त्यपि । तानि धनानि पुरा पूर्व न प्राप्तानि । चान्यत् [न]संप्रतीदानीं । तस्य ऋद्धेः प्राप्तौ न दृढप्रत्ययाः। परं तथापि वयं [वाञ्छामात्रपरिग्रहाण्यपि] वाञ्छामात्र[स्य] मनोरथमात्र[स्य] परिग्रहाण्यपि त्यक्तुं न शक्ताः न समर्थाः ॥ १११ ॥
'व्याघ्रीव तिष्ठति जरा परितर्कयन्ती . .. रोगाश्च शत्रव इव प्रविशन्ति देहम् । आयुः परिश्र(?स्र)वति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥११२॥ इति चित्रम् । लोकः तथापि अहितं पापं आचरति । तथापि किम् ? । जरा परिसर्कयन्ती हेरयन्ती तिष्ठति । जरा केव ? । व्याघ्री इव । यथा व्याघ्री जीवान् परितर्कयन्ती तिष्ठति । चान्यत् । रोगाः देहं प्रहरन्ति । रोगाः क इव ? । शत्रव इव यथा शत्रवः प्रहरन्ति । आयुः परिश्र(स्रवति । आयुः किमिव ? । भिन्नघटादम्भ इव । यथा भमघटात् अम्भः परिश्र(स)वति तथा आयुरपि । तथापि लोकाः संसारं सारमेव चिन्तयन्ति ॥ ११२ ॥
भोगास्तुङ्गतरङ्गभङ्गचपलाः प्राणाः क्षणध्वंसिनः ___ स्तोकान्येव दिनानि यौवनसुखप्रीतिः प्रियेषु स्थिता । . तत् संसारमसारमेव निखिलं बुद्ध्वा बुधान् बोधये
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥११३॥ तत् तस्मात् कारणात् अहं बुधान् पण्डितान् बोधये । किं कृत्वा ?। निखिलं असारमेव संसारं बुद्ध्वा । हे जनाः! लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् । लोकानामनुग्रहः लोकानुग्रहस्तेन पेशलं मनोज्ञं लोकानुग्रहपेशलं तेन । भोगास्तुङ्गतरङ्गभङ्गचपलाः । तुझानां तराना(?णां)कल्लोलानां ये भङ्गा रचनास्तद्वचपलास्तुङ्गतरङ्गभङ्गचपलाः । अन्यच्च । प्राणाः क्षणध्वंसिनः क्षणेन क्षणमात्रेण ध्वंसो विध्वंसो विद्यते येषां ते क्षणध्वंसिनः । यौवनसुखप्रीतिः • प्रियेषु वल्लभजनेषु स्तोकानि दिनानि स्थिता ।। ११३ ॥
१ ख. ग. च. छ. ज. कोशेषु दृश्यते। २ च. छ. ज. कोशेषु दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org