SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२२ भर्तृहरिकृत - शतकत्रयम् [२.१०९-११०] शेषं व्याधिवियोग दुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ १०९ ॥ [ जीवे जीवितव्ये ] प्राणिनां सौख्यं कुतः । कथम् ? । नृणां मनुष्याणां आयुर्वर्षशतं परिमितम् । [ तदर्ध ] तस्यायुषो वर्षशतप्रमाणस्यार्धं रात्रौ गतं शयानस्य ( छ. शयितस्य ) । ततोऽनन्तरं शेषं पञ्चाशत् । तस्यार्धस्य पञ्चाशदर्धस्य कदाचिदप्यधिकमर्धमपि बाल्य (ल) त्ववृद्धत्वयोर्गतम् । शेषं आयुः व्याधिवियोगशोकसहितं सेवादिभिः कर्मभिर्नीयते । किं० जीवितव्ये ! । वारितरङ्गचञ्चलतरे वारिणः समुद्रस्य [ तरङ्गा ] वारितरङ्गास्तद्वत् चञ्चलतरः वारितरङ्गचञ्चलतरस्तस्मिन् ॥ १०९ ॥ [This is the real end of the original Dhanasara commented version. But the codex continues beyond, while some of the others as indicated, various (different) additional stanjas without any commentary at all ]. अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामाम्भोजस्फुटोज्वलचन्द्रिका | विपुलविलसल्लज्जावल्लीविदारकुठारिका जठरपिठरी दुःपूरेयं करोति विडम्बनाम् ॥ ११० ॥ इयं दुःपूरा जठरपिठरी उदरकोष्ठिका विडम्बनां करोति प्राणिनां विगोपयति । किं० जठरपिठरी ? | अभिमतमहामानग्रन्थिप्रभेदपटीयसी अभिमतः स्तुत्यः योऽसौ महामानग्रन्थिः तस्य [प्र]मेद(१दे)विदारणे पटीयसी समर्था । पुनः किं० जठरपिठरी । गुरुतरगुणग्रामाम्भोजस्फुटोलचन्द्रिका गुरुतरो योऽसौ गुणग्रामः तान्येव ( ? स एव ) अम्भोजानि तेषां संकोचे स्फुटा प्रकटा उज्ज्वला चन्द्रिका । यथा चन्द्रिकायां प्रोल्लसितायां अम्भोजानि कमलानि संकोच - मामुवन्ति तथा अस्या जठरपिठर्याः [ कारणात् ] गुणग्रामाः संकोचं प्राप्नुवन्ति । पुनः किं० जठरपिठरी ! । विपुलविलसल्लजावल्ली विदारकुठारिका विपुला विस्तीर्णा विलसन्ती या लज्जावल्ली तस्याः विदारे विदारणे कुठारिका विपुलविलसल्लज्जावल्ली विदारकुठारिका । एवंविधेन जठरेण विडम्बितं जगत् ॥ ११० ॥ अथ तृष्णातरङ्गितचेतसः परिणाममाह "ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो दुःकरं यन्मुच्य(?ञ्च)न्त्युपभोगभाज्यपि धनान्येकान्ततो निःस्पृहाः । १ हं. ज. 'विदेश । २ ख. धर्मः । ३ख. घ. च. छ. कोशेष्वपि दृश्यते, न तु टीकायाम् । ४ ख. टोदय । ५ग. च. छ. Baroda 1781 कोशेषु दृश्यते । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy