________________
[३.१०७-१०८] वैराग्यशतकम्
१२१ आधिव्याधिशतैर्वयस्यतितरामारोग्यमुन्मूल्यते । - लक्ष्मीर्यत्र पैतत्रिवच्च विवृतद्वारा इव व्यापदः। जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्
तत् किं केन निरङ्कुशेन विधिना यन्निर्मितं सुस्थितम् ॥१०७॥ नाम इति संबोधने । तत् किम् यत् निरङ्कुशेन निराशकेन [ केन अव्यवस्थितेन ] विधिना दैवेन सुस्थितं निर्मितम् । किं तत् । वयसि शरीरे आधिव्याधिशतैः अतितरां अतिशयेन आरोग्यमुन्मूल्यते । तत्र आधिर्मानसी पीडा व्याधी रोगसमुद्भवा । चान्यत् । [यत्र] अय)स्मिन् दैवनिर्माणे लक्ष्मीः पतत्रिवत् पक्षिवत् पतनस्या (स्था)ना वर्तते। व्यापदः विवृतद्वारा इव उद्घाटितकपाटा इव वर्तन्ते। अवश्यं निश्चितं आशु .शीघ्रं मृत्युर्यमः जातं जातं उत्पन्नमुत्पन्नं आत्मसात् करोति आत्मायत्तं विधत्ते । ततः अस्य दैवस्य निर्माणे किमपि व्यवस्थितं स्थिरं नास्तीत्यागमः ॥ १०७॥
कृच्छ्रेणामध्यमध्ये नियमिततनुभिः स्थीयते गर्भमध्ये
कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने विप्रयोगः । नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वैदत यदि सुखं खल्पमप्यस्ति किंचित्॥१०॥ - रे मनुष्याः वदन्तु (१ त) कथयन्तु (? त) । यदि चेत् संसारे खल्पमपि सुखं किंचिदस्ति । गर्भमध्ये कृच्छेण कष्टेन नियमिततनुभिः संकोचितशरीरैः स्थीयते । किं. गर्भमध्ये ।। अमेध्यमध्ये अमेध्यं मध्ये यस्य तदमेध्यमध्यं तस्मिन् । अस्मिन् संसारे यौवने विप्रयोगः । किं० यौवने ? । कान्ताविश्लेषदुःखव्यतिकरविषमे कान्तायाः विश्लेषः कान्ताविश्लेषः तस्य योऽसौ दुःखव्यतिकरस्तेन विषमः (छ. निकरः) कान्ताविश्लेषदुःखव्यतिकरविषम• स्तस्मिन् । अपि पुनः नारीणामवज्ञा अवगणनं विलसति । अपि पुनः नियतं निश्चितं वृद्धभावः असाधुः । अस्मात् कारणात् संसारे किमपि साख्यं नास्ति ॥ १०८॥ ..
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्ध गंतं . तस्यार्धस्य परस्य चार्धमपरं बोलत्व-वृद्धत्वयोः ।
१ ग. जनस्य विविधैः। २ ख. ग. घ. उन्मील्यते। ३ ग. पतन्ति तत्र । ४ ख. घ. सस्थिरम। ५ग. विषमो। ६क. विलसितनि: ग. वसतिरनि। ७छ. वदत। दग. स्वल्पमल्पस्ति । ९ ज. कृतं; हं. तदर्धाकृतं । १० ख. घ. कदाचिदर्धमधिकं । ११ ख. वृद्धत्वबाल्ये गतम्। घ. ज. बाल्यत्ववृद्धत्वयोः ।
१६ शतकत्र. Jain Education International For Private & Personal Use Only
www.jainelibrary.org