________________
१२०
भर्तृहरिकृत शतकत्रयम् [३. १०४-१०६] आशापाशशतोपशान्तिविशदं चेतः समाधीयतां ___कामोच्छित्तिवशे खधामनि यदि श्रद्धेयमस्मद्वचः॥१०४॥
रे लोकाः ! चेष्टितैः नवनवविकल्पव्यापारैः कृतं पूर्यताम् । यदि चेदस्मद्वचः श्रद्धेयं श्रद्धायोग्यं श्रद्धेयं अनुमत्य(?मान्य)मित्यर्थः, तदा खधामनि स्वकीयशरीरमन्दिरे कामोच्छिचिवशे कन्दर्पजयार्थ केवलं चेतः समाधीयताम् । किं० चेतः ? । आशापाशशतोपशान्तिविशदम् आशापाशस्य शतं आशापाशशतं तस्य उपशान्त्या विशदं निर्मलं आशापाशशतोपशान्तिविशदम् । यतो भोगा भङ्गुरवृत्तयः भङ्गुरा विनश्वरा वृत्तिर्येषां ते भङ्गुरवृत्तयः । किं० भोगाः? । बहुविधाः अनेकप्रकाराः एव निश्चयेन । बहुविधैर्भोगैः अयं भवः संसार एव । रे लोकाः ! तत् कस्मात् कारणात् कस्य कृते परिभ्रमत बंभ्रमणं कुरुत ॥ १०४ ॥
धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायताम्
आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्केशयाः । अस्माकं तु मनोरथैः परिचितप्रासादवापीतट
क्रीडाकाननकेलिकौतुकजुषामायुः परिक्षीयते ॥१०५॥ धन्यानां मनुष्याणां एवंस्थित्या आयुः परिक्षीयते । किं० धन्यानाम् ? । गिरिकन्दरे निवसताम् । धन्यानां किं कुर्वताम् ? । परं ज्योतिायताम् । येषां धन्यानां आनन्दाश्रुजलं निःशङ्कं शङ्कारहितं शकुनाः पक्षिणः पिबन्ति । किं० शकुनाः ? । अङ्केशयाः उत्सङ्गसमारूढाः । तु पुनः अस्माकं अधन्यानां आयुरेवं मनोरथैः परिक्षीयते । किं. अस्माकम् ! । परिचितप्रासादवापीतटक्रीडाकाननलिकौतुकजुषां परिचिता याः प्रासादवापीतटक्रीडाकाननकेलयस्तासां कौतुकैः जुषन्तीति [ परिचित ] प्रासादवापीतटक्रीडाकाननकेलिकौतुकजुषस्तेषाम् ॥ १०५॥
आघातं मरणेन जन्म जरयाऽप्यत्युज्वलं यौवनं
संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः। लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्
अस्थैर्येण विभूतिरप्यपहृता ग्रस्तं न किं के जनाः ॥१०६॥ एभिः प्रकारैः किं न ग्रस्तम् । अन्यच्च के जनाः न ग्रस्ताः । मरणेन जन्म आघ्रातं स्पृष्टमित्यर्थः । अत्युज्वलं यौवनं जरया आघ्रातं स्पृष्टम् । धनलिप्सया संतोषः आघ्रातः । प्रौढाङ्गनाविभ्रमैः शमसुखं आघातम् निरस्तं (हं. छ. ग्रस्तम् ) । मत्सरिभिर्लोकः गुणाः आघ्राताः विनाशिताः । व्यालैः दुष्टगजैः वनभुव आघ्राताः । दुर्जनैर्नृपाः भूपालाः आघाताः प्रस्ताः । विभूतिरपि अस्थैर्येण आघ्राता अपहृता इत्यर्थः । तर्हि कालेन किं किं न विनष्ट किं किं न विनक्ष्यति ॥ १०६ ॥
१ ग. मनोरथोपरि । २ हं. च. ज. परं क्षीयते। ३ ग. विद्युञ्चलं; हं. 'प्युत्युज्ज्वलं। ४ ग. नृपो। ५ग. धृतिर्जगत्यपहृता। ६ ग. केन वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org