SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [३. १०२-१०३] . वैराग्यशतकम् विश्वत्रयाणां अन्तरात्मा जगदन्तरात्मा तस्मिन् । उभयोर्दैवयोर्मम चेतस्यन्तरं नास्ति । तथापि एवं सत्यपि तरुणेन्दुशेखरे श्रीमहेशे मम भक्तिः (छ० एषा मिथ्यात्विनामुक्तिः) ॥१०१॥ रे कन्दर्प करं कदर्थयसि किं कोदण्डटङ्कारवैः ।। रे रे कोकिल कोमलैः कलरवैः किं त्वं वृथा जल्पसि। . मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षरलं चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥१०२ ॥ रे कन्दर्प ! कोदण्डटङ्कारवैः करं किं कदर्थयसि । रे रे कोकिल ! कोमलैः कलरवैः पञ्चमस्वरैः (त्वं) किं वृथा जल्पसि । हे मुग्धे ! त्वं ( १ तव ) कटाक्षैरलं पूर्यताम् । किं० कटाक्षः ? । स्निग्धविदग्धमुग्धमधुरक्षेपैः स्निग्धश्च विदग्धश्च मुग्धश्च मधुरश्च क्षेपो येषां ते स्निग्धविदग्धमुग्धमधुरक्षेपाः तैः । भवताम् पूर्वोक्तानां कृतं निखिलं अपि व्यर्थम् । अस्माकं चेतः चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते । चुम्बितं चन्द्रचूडस्य महेशस्य चरणध्यानामृतं येन तत् चुम्बितचन्द्रचूडचरणध्यानामृतम् ॥ १०२॥ । कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी निश्चिन्तं सुखसाध्यभैक्ष्यमशनं शय्या श्मशाने वने । .. मित्रामित्रसमानतातिविमला चिन्ताऽथ शून्यालये ध्वस्ताशेषमैदप्रमादमुदितो योगी सुखं तिष्ठति ॥ १०३ ॥ योगी सर्वसङ्गपरित्यागी सुखं तिष्ठति । किं० योगी ? । ध्वस्ताशेषमदप्रमादमुदितः ध्वस्ता निराकृताः अशेषाः मदप्रमादा येन स ध्वस्ताशेषमदप्रमादस्तेन मुदितः ध्वस्ताशेषमदप्रमादमुदितः । यस्य योगिनः शतखण्डजर्जरतरं कौपीनम् । पुनः कन्था तादृशी पूर्वोक्ता शतखण्डजर्जरतरा । निश्चिन्तमशनम् । किं० अशनम् ? । सुखसाध्यभैक्ष्यम् सुखेन साध्यं सुखसाध्यम् एवंविधायाः भिक्षायाः समुत्पन्नं सुखसाध्यभैक्ष्यम् । अन्यच्च शय्या श्मशाने वने वनान्ते । तथा मित्रामित्रसमानता मित्रश्च अमित्रश्च मित्रामित्रौ मित्रामित्रयोः सादृश्यं माननं (ख. सामान्यं) मित्रामित्रसमानता । अथ पश्चात् शून्यालये अतिविमला अतिनिर्मला शुक्लध्यानलक्षणा चिन्ता । अतः कारणात् योगी निर्मुक्तः संसारे सुख (हं. छ० न) तिष्ठति ॥ १०३ ॥ भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस् - तत् कस्यैव कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः । . १ ग. जहरतरं; च. जर्जरतरा। २ म. घ. निश्चिन्त्यम् । ३ घ. मुदप्रमोद । ४ छ. त्यक्तस्येव; हं. तत्कस्येव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy