________________
११८
भर्तृहरिकृत-शतकत्रयम् [३. ९९-१०१] नायं ते समयो रहस्यमधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः । चेतेस्तानपहाय योहि भवनं देवस्य विश्वेशितुर्
निदीवारिकनिर्दयोक्त्यरुषं निःसीमशर्मप्रदम् ॥ ९९॥ यदि प्रभुः खामी येषां वचो द्वारेषु श्रुत्वा स्थित्वा इति द्रक्ष्यति कुप्यति । इतीति किम् । नायं ते समयः संप्रति प्रस्तावो नास्ति । अधुना रहस्यं मन्त्रालोचनाद्यः (हं. लोचः ।) [नाथ:] स्वामी निद्राति प्रमीलां कुरुते । रे चेतः! तान् प्रभूनपहाय विश्वेशितुः परमेश्वरस्य महेशस्य भवनं याहि । किं० भवनम् ? । निर्दोवारिकनिर्दयोक्त्यपरुषम् । कोऽर्थः । निर्गतो दौवारिको यस्मात् तन्निौवारिकं प्रतीहाररहितम् । निर्दयोक्त्या कठोरोक्त्या अपगतो रुट् कोपो यस्मात् तत् निर्दयोक्त्यपरुषं निर्दोवारिकं च निर्दयोक्त्यपरुषं च तत् । पुनः किं० १ । निःसीमशर्मप्रदम् निःसीम सीमाहीनं शर्म सौख्यं प्रददातीति [तत् ] निःसीमशर्मप्रदम् । अनर्गलसौख्यदायकमित्यर्थः ।।९९॥
प्रियसैखि विपदण्डवांतपातपरंपरा
परिचयचले चिन्ताचक्रे निधाय विधिः खलः । मृदमिव बलात् पिण्डीकृत्य प्रगल्भकुलालवत् ___ भ्रमयति मनो नो जानीमः किमत्र विधास्यति ॥ १० ॥
हे प्रियसखि ! (ख. सखे) खलो विधिः पराङ्मुखो दैवः नो जानीमः अत्र इदानीं किं विधास्यति । अयं विधिः चिन्ताचके निधाय बलात् पिण्डीकृत्य मनो भ्रमयति । किं० चिन्ताचक्रे ?। विपद्दण्ड [बात ] प्रपातपरंपरापरिचयचले विपदेव दण्डः विपद्दण्डः तम्य या प्रपातपरंपरा तस्याः परंपरायाः परिचयस्तेन चलश्चञ्चलः विपद्दण्डप्रपातपरंपरापरिचयचलस्तस्मिन् । मनः कमिव ? । मृदमिव । विधिः क इव ? । प्रगल्भकुलालवत् । यथा प्रगल्भकुलालः मृदं मृत्तिका बलात् पिण्डीकृत्य चक्रे निधाय भ्रमयति । एतावता विपरीतविधेः विलसितं कोऽपि न वेत्ति ॥ १०० ॥ - महेश्वरे वा जगतां महेश्वरे जनार्दने वा जगदन्तरात्मनि ।
नं भेदहेतुः प्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥१०॥
मे मम महेश्वरे वा अथ वा जनार्दने वासुदेवे मेदहेतुः प्रतिपत्तिर्नास्ति । किं० महेश्वरे ?। जगतां महेश्वरे त्रिभुवनस्य अधिपतौ । किं० जनार्दने ? । जगदन्तरात्मनि जगतां
१. ख. ग. ज. द्रक्षति । २ ज. ते च स्थानप। ३ ग. पाहि। ४ छ. पुरुषं ।। ५ग. प्रियसख। ६ हं. ग. च. छ. ज. कोशेषु 'वात' इति नास्ति । ७ ज. प्रताप । ८घ. खलु। ९ ग. तामधीश्वरे। १० ख.ग. घ. तयोर्न भेदः; च. नो भेदहेतुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org