________________
[३.९६-९८]
वैराग्यशतकम् । येषां 'नैझरमम्बु पानमुचितं रत्यैवे विद्याङ्गना
मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न सेवाञ्जलिः ॥ ९६ ॥ येषां पुरुषाणामेवंविधा स्थितिः, अहमेवं मन्ये त एव परमेश्वराः । सा का स्थितिः।। शैलशिला शय्या। गिरिगुहा गृहम् । तरूणां त्वचो वस्त्रम् । सुहृदः सारङ्गाः। ननु निश्चितं क्षितिरुहां वृक्षाणां कोमलैः फलैः वृत्तिः । नैझरमम्बु पानं । एव निश्चयेन रत्या सह उचितम् अङ्गना विद्या । येषामिति स्थितिः ते ईश्वराः यैः शिरसि सेवाञ्जलिन बद्धः ॥९६ ॥
सत्यामेव त्रिलोकीसरिति हरशिरश्चुम्बिनीविच्छटायां - सद्वृत्तं कल्पयन्त्यां तटविटपिभवैवल्कलैः सत्फलैश्च ।
कोऽयं विद्वान् विपत्तिज्वरजनितरुजाऽतीव दुःखासिकानां वक्त्रं वीक्षेत दुःस्थे यदि हि न बिभृयात् खे कुटुम्बेऽनुकम्पाम् ॥ ९७॥
हि निश्चितम् । यदि चेत् दुःस्थे (हं. दुखे) स्वे] स्वकीये कुटुम्बेऽनुकम्पां कृपां न बिभृयात् । यत्तदोर्नित्यसंबन्ध इति न्यायात् । तदा कोऽयं विद्वान् अतीव दुःखासिकानां नारीणां वक्त्रं वीक्षेत । अपि तु न कोऽपि । विपत्तिज्वरजनितरुजा विपत्तिरेव ज्वरः विपत्तिज्वरः विपत्तिज्वरेण जनिता रुक् विपत्तिज्वरजनितरुक् तया । कस्यां सत्याम् । त्रिलोकीसरिति गङ्गायां सत्यामेव । किं० सरिति । हरशिरश्चम्बिनीविच्छटायां हरशिरश्चम्बिनी ईश्वरमस्तकस्पर्शिनी (ख. च. 'कस्य रशनी) नीविच्छटा काञ्चीप्रदेशो यस्याः सा हरशिरश्चुम्बिनीविच्छटा तस्याम् । पुनः किं० त्रिलोकीसरिति ।। सद्वत्ते सदाचारे कल्पयन्त्यां प्रेरयन्त्यां। कैः ? । सत्फलैः। चान्यत् । वल्कलैः । किं० सत्फलैः वल्कलैः ? । तटविटपिभवैः तटवृक्षोद्भवैः ॥९७ ॥ : उद्यानेषु विचित्रभोजनविधिस्तीवातितीव्र तपः
कौपीनावरणं सुवस्त्रममितं भिक्षाटनं मण्डनम् । आसन्नं मरणं च मङ्गलँसमं यस्यां समुत्पद्यते
तां कौशी परिहत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥ ९८॥ तां काशी (ह. कासी) परिहत्य (हं. च. छ. "त्यक्त्वा )। हन्त इति खेदे । विबुधैः किं अन्यत्र स्थीयते । अपि तु न । यस्यां काश्यां उद्यानेषु विचित्रभोजनविधिः । चान्यत् । तीवातितीव्र तपः। चान्यत् सुवस्त्रं कौपीनावरणं मण्डनम् । चान्यत् यस्यां अमि[तं भिक्षाटनम् । चान्यत् । यस्यां ] काश्यां मङ्गलसमं आसन्नं मरणं समुत्पद्यते । तां काशी मुक्त्वा अन्यत्र कथं स्थीयते ॥ ९८ ॥
१ख. घ. च. निर्झरम् । २ ख. ग. रत्येव । ३ च. सदृत्तां; छ. सदृत्ते; ज. सवृत्तं । ४ख. तटविटप; हं. च. वटविटपि; छ. ज. वटविटप। ५ ख. च. छ. वीक्ष्येत । ६ख. च. दुःस्थे, ग. दुत्थो। ७च. °लमयं । ८हं. कासीं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org