________________
११६
भर्तृहरिकृत-शतकत्रयम् _ मनोरथाः स्वहृदये जीर्णाः एव । यौवनं [जरां यातं ] जराव्याप्तम् । हन्तेति खेदे । चान्यत् । गुणा [ अङ्गेषु ] वन्ध्यफलतां गुणविना जाताः । अक्षमी बलवान् कालो यमः सहसा अभ्युपैति । किं युक्तम् ? | हि निश्चितम् । आज्ञातम् आ समन्ताद्भावेन ज्ञातं । [ किम् आज्ञातम् ?।] त्रिपुरान्तकाझियुगलं मुक्त्वा अन्या गतिनास्ति । किं० कालः ? । कृतान्तः कृतोऽन्तो येन सः कृतान्तः ॥ ९३ ॥
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादुसुरभि
क्षुधातः सञ् शालीन् केवलयति शाकादिवलितान् । प्रदीप्ते रागाग्नौ सुदृढतरमाश्लिष्यति वधूं . प्रतीकारो व्याधेः सुखमिव विपर्यस्यति जनः ॥ ९४ ॥ - प्राणी सलिलं पानीयं पिबति । क्व सति ? । आस्से वदने तृषा शुष्यति सति । किं० सलिलम् ? । स्वादुसुरभि । प्राणी क्षुधार्तः सन् शालीन कवलयति अत्ति । किं० शालीन् ? । शाकादिवलितान् । प्राणी रागानौ प्रदीप्ते सति सुदृढतरं यथा भवति वधूं भार्या आश्लिष्यति आलिङ्गते । जनः प्राणी व्याधेः प्रतीकारः उपचारः [ योऽस्ति तं] सुखमिव विपर्यस्पतिः विपर्यासं करोति ।। ९४ ॥ ... स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेय क्षितिधरकुहरग्रावपर्यङ्कले । आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात् स्मरारे
दुःखं मोक्ष्ये कदाहं तव चरणरतो ध्यानमार्गप्रश्नः ॥ ९५ ॥ - हे स्मरारे ! कदा दुःखान्मोक्ष्ये । किं कृत्वा ? । गाङ्गैः पयोभिः (है. ख. च. त्यां) स्नात्वा। हे विभो! चान्यत् शुचिकुसुमफलैरर्चयित्वा । पुनः किं कृत्वा । क्षितिधरकुहरग्रावपर्यङ्कमूले ध्येये कर्मणि ध्यानं निवेश्य । क्षितिधरस्य कुहरं क्षितिधरकुहरम् । क्षितिधरकुहरस्य यत् प्रावं तदेव पर्यंकं तस्य यन्मूलं [ तत् ] क्षितिधरकुहरगावपर्यङ्कमूलं तस्मिन् । किं० अहम् ? । आत्मारामः। पुनः किं० अहम् ? । फलाशी। पुनः किं० अहम् ।। त्वत्प्रसादाद् गुरुवचनरतः। पुनः किं० अहम् ? । ध्यानमार्गकप्रश्न: (घनः, प्रश्नः)। [पुनः किं० अहम् ।।] तव चरणरतः ॥९५॥ . शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः।
सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः। . १ ज. कुवलयति । २ च. सुहृदतर । ३ ग. सुखमिति। ख. ग. घ. नियोज्य । ५हं. मूलं। ६.ग. रामोपलीनो। ७छ. दुःखान् । ८ख. मोक्षे कदाहं, घ. मोक्षकदाह। ९च. प्रश्नः; हं. छ. ज. °घनैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org