________________
[३.९१-९३]
वैराग्यशतकम् विदुषा पण्डितेन आत्मश्रेयसि स्वमोक्षोपाये (हं. ख. च. सुमोक्षाय ) तावदेव महान् प्रयत्नः कार्यः । [यावदिदं कलेवरगृहं शरीरमन्दिरं खस्थं वर्तते समाधानपरायणं वर्तते । चान्यत् । यावत् जरा दूरे वर्तते । चान्यत् यावत् इन्द्रियशक्तिः अप्रतिहता वर्तते । चान्यत् । यावदायुषः क्षयो नास्ति । तावदेव स्वहिते प्रयत्नः कार्यः।] [तु पुनः] भवने [आदी] (च. उद्दीपिते) सति प्रदीप्ते सति । (ख. च. हि निश्चितम् ) । कूप (हं. छ. प्रकूप) खनने कीदृशः प्रत्युद्यमः । ननु प्रदीपने प्रदीप्ते सति कूपं खनितुं न शक्यते ॥ ९०॥
नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता
खड्गागः करिकुम्भपीठदलनैकिं न नीतं यशः। कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ ९१ ॥ भुवि पृथिव्यां विद्या न अभ्यस्ता । किं० विद्या ?। वादिवृन्ददमनी । पुनः किं० विद्या ? । विनीतोचिता विनयवतः पुरुषस्य योग्या । खगाणैः कृपाणधाराभिः यशो नाकं स्वर्गलोकं प्रति न नीतम् । किं० खड्गाप्रैः ? । करिकुम्भपीठदलनैः करिणां कुम्भपीठं करिकुम्भपीठं तद्दलने शीलं येषां ते करिकुम्भपीठदलनास्तैः । चान्यत् । चन्द्रोदये कान्ताकोमलपल्लवाधररसो न पीतः । अहो इति खेदे । तारुण्यं यौवनं निष्फलमेव गतम् । किंवत् । शून्यालये दीपवत् ॥ ९१ ॥
ज्ञानं सतां मानमदादिनाशनं केषां चिदेतन्मदमानकारणम् । स्थानं विविक्त यमिनां विमुक्तये कामातुराणामतिकामकारणम्॥९१
सतां सत्पुरुषाणां ज्ञानं मानमदादिनाशनं भवति । केषां चिदधमानां एतत ज्ञानं मदमानकारणं भवति । अमुमेवार्थ कविदृष्टान्तेन द्रढयति। यमिनां मुनीनां विविक्तं स्थानं एकान्तप्रदेशः विमुक्तये भवति संसारोच्छेदनाय स्यात् । कामातुराणां पुरुषाणां तदेव विविक्तं . निर्जन (हं. नियंजनं ) जनरहितं [स्थानं] अतिकामकारणं भवति कामविकाराय स्यात् ॥१२॥
जीर्णा एव मनोरथाः खहृदये याँतं जरी यौवनं
हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां योता गुणज्ञैर्विना । किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोऽक्षमी ..
ह्याज्ञातं त्रिपुरान्तकाङ्गियुगलं मुक्त्वाऽस्ति नान्या गतिः ॥९३ १ज. 'दन्तिदमनी। २ ज. दन्तदलनैः। ३ ख. घ. नीतं न नाकं। ४६. क. ग. निम्फल। ५. विमुक्त। ६ ग. सुहृदये। ७ ख. घ. ज. जातं; छ. व्याप्तं । ८क. 'जरा। ९ख. घ. जाता। १० घ. कामः। ११ ख. ग. च. ह्याझानं घ. शशान । १२ ज. युगुलं। १३ ग. मुक्तास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org