________________
११४
भर्तृहरिकृत-शतकत्रयम् [३. ८८-९०] रथ्याक्षीणविशीर्णजीर्णवसनैः संप्राप्तकन्थासखो
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ८८ ॥ एवंविधः तपस्वी कश्चिद् विरलः स्थितो वर्तते । कीदृशः? । भिक्षाशी भिक्षाभोजनः । पुनः किं० ?। जनमध्यसङ्गरहितः। पुनः किं० तपस्वी ? । सदा सर्वदा स्वायत्तचेष्टः स्वाधीनमानसपरिणामः । पुनः कीदृशः?। दानादानविरक्तमार्गनिरतः दानं च आदानं च दानादाने दानादानयोर्विरक्तमार्गः [तत्र निरतः सावधानः । ] पुनः कीदृशः। रथ्याक्षीणविशीर्णजीर्णवसनैः संप्राप्तकन्थासखः रथ्यायाः क्षीणानि विशीर्णानि (हं. विस्तीर्णानि) जीर्णानि वसनानि रथ्याक्षीणविशीर्णजीर्णवसनानि तैः कृत्वा संप्राप्ता कन्था सखी पत्नी सहायिनी येन सः । पुनः कीदृशः। निर्मानः नोमानी गर्वरहितः ब्रह्मज्ञः (च. छ. आत्मज्ञः)। पुनः किं०। निरहंकृतिः निरहंकारः। पुनः किं० । शमसुखाभोगैकबद्धस्पृहः शमस्य सुखं शमसुखं [ तस्य आभोगः अनुभवः तत्र ] शमसुखाभोगे विस्तारे एका बद्धा स्पृहा येन सः ॥ ८८॥ . , मातर् मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर् व्योम निबद्ध एष भवतामन्त्यप्रणामाञ्जलिः। युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरन्निर्मल
ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ ८९ ॥ . हे मातः ! हे मेदिनि ! हे तात मारुत ! हे सखे तेजः ! हे सुवन्धो जल! (ख. ग. ज्वल) हे भ्रातर व्योम! भवतां पञ्चतत्त्वानां एषः अन्त्यप्रणामाञ्जलिः निबद्धोऽस्ति । तथाविधेयं यथा परब्रह्मणि लीये लीनो भवामि । किं० अहम् ।। युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरनिर्मलज्ञानापास्तसमस्तमोहमहिमा युष्माकं सङ्गः [ युष्मत्सङ्गस्तस्य वशस्तेन ] युष्मत्सङ्गवशेन उपजातो योऽसौ सुकृतोद्रेकः तस्य स्फुरनिर्मलज्ञानेन अपास्ता (? तो) निराकृता ( ? 'तः ) समस्तमोहमहिमा येन स युष्म० ॥ ८९॥
यावत् स्रस्थमिदं कलेवरगृहं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान
आदीप्ते भवने तु कूपख ने प्रत्युद्यमः कीदृशः ॥ ९ ॥
१च. शमसुखो। २ ख. ग. च. सुबन्धोज्वल । ३ ग. अन्त्यः । ४ग. परे ब्रह्मणि । ५घ. स्वास्थ्यमिदं। ६ च. शरीरमरुजं । ७ ग. प्रोद्दीप्ते; हं. ज. उद्दीते। ८ख.. भुवने। ९ख. घ. न. हं. च. हि। १० क. ख. ग. घ. खनन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org