________________
[ ३.८६-८७ ]
वैराग्यशतकम्
११३
मनस्विनः जितेद्रियस्य ( इं . यतेंद्रियस्य ) ब्रह्माण्डमण्डलीमात्रं किं लोभाय जायते । अपि तु न । ब्रह्माण्डस्य मण्डली ब्रह्माण्डमण्डली ब्रह्माण्डमण्डली एव मात्रा यस्य तत् ब्रह्माण्डमण्डली - मात्रम् । अब्धेः समुद्रस्य शफरीस्फुरितेन मत्सिकावेल्लनेन ( ख. वेलितेन ) जातु कदाचित् क्षुब्धता (च. क्षुद्रता ) क्षोभना ( छ. क्षोभमाना ) जायते । अपि तु न । तथा मनखिनः पुरुषस्य ब्रह्माण्डं लोभाय न जायते ॥ ८५ ॥
यदासीदज्ञानं स्मरतिमिर संस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि । इदानीमस्माकं पटुतर विवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म तनुते ॥ ८६ ॥
यदा यस्मिन् प्रस्तावे अज्ञानमासीत् तदा इदं अशेषं जगदपि मया नारीमयं दृष्टम् । किं लक्षणमज्ञानम् ? । स्मरतिमिरसंस्कारजनितं स्मरस्य कन्दर्पस्य यत् तिमिरमन्धकारः तस्य संस्कारेण पूर्वभवोद्भवपरिणामेन जनितम् । इदानीं सांप्रतं अस्माकं समीभूता दृष्टिः समतापरिणामेनालंकृतं चेतः त्रिभुवनमपि ब्रह्म तनुते परब्रह्मरूपं विस्तारयति । किं० अस्माकम् ? | पटुतरविवेकाञ्जनजुषां प्रकृष्टः पटुः पटुतरः पटुतरो योऽसौ विवेकः पटुतरविवेकः [ स एव ] अञ्जनं पटुतरविवेकाञ्जनं तेन पटुतरविवेकाञ्जन(?ञ्जनेन जुषः ('? जुट् ) सेवनं येषां ते पटुतरविवेकाञ्जनजुषस्तेषाम् । अथ यथास्थितं संसारस्य स्वरूपं पश्यामः ॥ ८६ ॥
रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यः साधुसमागमः शमसुखं काव्येषु रम्याः कथोः । कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यमनित्यतामुपगते चित्ते न किंचित् पुनः ॥ ८७ ॥
चन्द्रमरीचयो रम्याः । वनान्तस्थली रम्या । किं० स्थली ? । तृणवती शाद्वलवणयुता । •साधुसमागमः रम्यः । शमसुखं रम्यम् । काव्येषु कथा रम्याः ( हं. रम्या ) । अन्यच्च प्रियायाः मुखं रम्यम् । किं० मुखम् ? । कोपोपा हितबाष्पबिन्दुतरलं कोपोपाहितं कोपाटोपनिवेशितं यद् बाष्पबिन्दु तेन तरलं चञ्चलं कोपोपाहितबाष्पबिन्दुतरलम् । पुनः अनित्यतां उपगते संप्राप्ते चित्ते सर्व रम्यं न किंचित् ॥ ८७ ॥
भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा दानादानविरक्तमार्गनिरतः कश्चित् तपस्वी स्थितः ।
१ ख. समसुखं । २ हं. कथा ।
१५ शतकत्र•
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org