________________
१९२
भर्तृहरिकृत-शतकत्रयम् [३. ८३-८५] यत्वादात् यस्य ब्रह्मणो रसात् त्रैलोक्यराज्यादयो विषयाः विरसा भवन्ति मोक्षादाय (हं. 'यि ) कत्वात् ॥ ८२ ॥
किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः ___वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः । मुक्त्वैकं भवभारदुःखरचनाविध्वंसकालानलं
खात्मानन्दपदप्रवेशकलनं शेषा वणिग्वृत्तयः ॥ ८३ ॥ वेदैः किं, स्मृतिभिः किं, पुराणपठनैः किं, शास्त्रैः किम् । किं० शास्त्रैः । महाविस्तरैः महान् विस्तरो येषां ते महाविस्तरास्तैः । [अन्यच्च ] कर्मक्रियाविभ्रमैः किम् । किं० कर्मक्रियाविभ्रमैः । स्वर्गग्रामकुटीनिवासफलदैः स्वर्गग्रामस्य कुटी स्वर्गग्रामकुटी तस्याः निवासफलं ददतीति स्वर्गग्रामकुटीनिवासफलदास्तैः । एकं स्वात्मानन्दपदप्रवेशकलनं मुक्त्वा ( छ. भव्यं)। स्वकीयोऽसौ आत्मा स्वात्मा तस्य यत् आनन्दपदं स्वात्मानन्दपदं तस्य प्रवेशकलनं स्वात्मानन्दपदप्रवेशकलनं । [ किं० तत् ? । भवभारदुःखरचनाविध्वंसकालानलं ।] शेषाः क्रियाः वणिग्वृत्तयः वणिगाचरणम् ॥ ८३॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर्
अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगेपूराः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यत् प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ८४ ॥ हे उत्तमाः ! ब्रह्मणि परब्रह्मणि आसक्तचित्ता भवत (क. च. भवतु; ख. ग. घ. भवन्तु ) यूयं । किं कर्तुम् ? । भवभयाम्भोधिपारं तरीतुं । भवभयाम्भोधेः पारः भवभयाम्भोधिपारस्तम् । शेष समस्तमस्थिरम् । किं किम् ? । आयुः कल्लोललोलं समुद्रकल्लोलवच्चपलम् । यौवनश्रीः कतिपयदिवसस्थायिनी कतिपयदिवसान् स्थातुं शीलमस्याः सा कतिपयदिवसस्थायिनी। अर्थाः संकल्पकल्पाः संकल्पतुल्याः । भोगपूराः (छ. पूगाः) घनसमयतडिद्विभ्रमाः घनसमयतडिद्वत् विभ्रमो येषां ते घनसमयतडिद्विभ्रमाः । प्रियाभिः प्रणीतं यत् कण्ठश्लेषोपगूढं तदपि न चिरं । तस्मिन् कारणे परब्रह्म एव शाश्वतम् ॥ ८४॥
ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः।
शेफरीस्फुरितेनाब्धेः क्षुब्धता जातु जायते ॥ ८५ ॥ १ ग. भवबंध घ. भुवभार। २६ कालानिलं। ३ छ. भोगपूगाः। ४ ख. ग.. भवतु। ५ घ. शबरी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org