________________
[३. ८१-८२]
वैराग्यशतकम् 'पुनरपि रजनी पुनरपि दिवसः पुनरपि मासः पुनरपि वर्षम् ।
पुनरपि वृद्धः पुनरपि बालः पुनरपि याति समेति च कालः ॥ १॥ एवंविधं संसारस्य स्वरूपं मत्वा तस्मात् संसारात् विरक्ता [बुधा ] एव भवन्ति न जडाः॥ ८०॥
महीशय्या शय्या विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः। स्फुरदीपश्चन्द्रो विरतिवनितासङ्गमुदितः
सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ ८१ ॥ शान्तो मुनिः सुखं यथा भवति [ तथा ] शेते । यस्य मुनेः महीशय्या शय्या पृथ्वीस्वापः शयनम् । यस्य मुनेर्विपुलमुपधानं गण्डूषः [?] भुजलता भुजवल्ली । चान्यत वितानं चन्द्रोदयः आकाशम् । अयमनुकूलः शीतलः [अनिलः] पवनः व्यजनं तालवृन्तः । चान्यत् चन्द्रः स्फुरद्दीपः । चान्यत् विरतिवनितासङ्गं प्रति उदितः। मुनिः क इव ? । नृप इव यथा नृपः । महीशय्या पृथ्वीशायिनी शय्या भवति । अन्यच्च विपुलोपधानो भवति विस्तीर्णगण्डूषो (ख. गण्डपो; च. 'गण्डशो ) भवति । चान्यत् । आकाशोपरि (हं. 'शं प्रति) मस्तकोपरि वितानं भवति । चान्यत् व्यजनानिलेन वीजितो भवति । अन्यच्च स्फुरद्दीपो भवति । अन्यच्च वनितासङ्गं प्रति उदितो भवति । किं० मुनिः ? । चान्यत् नृपः? । अतनुभूतिः । अतन्वी भूतिर्विभूतिर्यस्य [सः] । पक्षे लक्ष्मीः ॥ ८१ ॥
त्रैलोक्याधिपतित्वमेव विरसं यस्मिन् महाशासने . तल्लैब्धासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।
भोगः कोऽपि स एक एव परमो नित्योदितो जम्भते • यत्स्वादाद् विरसा भवन्ति विषयास्त्रैलोक्यराज्यादयः ॥ ८२ ॥ • हे आत्मन् ! तत् परब्रह्म लब्धा (हं. ध्वा) भोगे रति मा कृथाः। यस्मिन परब्रह्मणि एव निश्चयेन त्रैलोक्याधिपतित्वं विरसं वर्तते । किं० परब्रह्मणि ? । महाशासने प्रौढमते । किं० भोगे? । आसनवस्त्रमानघटने । आसनं सिंहासनं सुखासनादि वस्त्राणि चीनांशुकपट्टकूलादि ( ? ०दीनि ) मानं महत्त्वाभिमानादि तेषां घटनं आसनवस्त्रमानघटनं तस्मिन् । एवंविधे भोगे का रतिः । कोऽपि स भोग एक एव परमो ब्रह्म नित्योदितः सन् उज्जृम्भते ।
१ ख. घ. मही शय्या रम्या; ग. च. मही रम्या शय्या। २ ग. शान्तं । ३. तल्लब्ध्वा । ४ ज. एष। ५ख. नित्योर्दितो। ६ हं. 'तोज़ुभते । ७ ख. घ. वशशास्; ग. विभवास्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org