________________
भर्तृहरिकृत-शतकत्रयम् [ ३.७८-८०.] तस्मादनन्तमजरं परमं विकाशि
तेद् ब्रह्म वाञ्छत जना यदि चेतनस्थाः। यस्यानुषङ्गिण इमे भवनाधिपत्य
भोगादयः कृपणलोकरता भवन्ति ॥ ७८ ॥ हे जनाः! यदि यूयं चेतनस्थाः तत तस्मात ब्रह्म वाञ्छत । किं. ब्रह्म ? । अनन्तं अन्तरहितं अजरं जरावर्जितं । पुनः किं० ब्रह्म ? । परमं विकाशि । यस्य परब्रह्मणः इमे भवनाधिपत्यभोगादयः अनुषङ्गिणो भवन्ति अनुयायिनो वर्तन्ते । किं० भवनाधिपत्यभोगादयः ? । कृपणलोकरताः तुच्छजनविभ्रमाः ॥ ७८ ।।
पातालमाविशसि यासि नभो विलय
दिग्मण्डलं भ्रमसि मानसचापलेन । भ्रान्त्यापि जातु विमलं कथात्मनीनं
तद् ब्रह्म न स्मरसि निर्वृतिमेषि येन ॥ ७९ ॥ रे मूढ ! पातालमाविशसि । अन्यच्च नभः आकाशं विलय यासि । अन्यच्च दिग्मण्डलं भ्रमसि । केन ? । मानसचापलेन मानसस्य चापलं मानसचापलं तेन । जातु कदा चित् भ्रान्त्यापि तद् ब्रह्म कथं न स्मरसि । येन ब्रह्मणा निवृतिम् ( मातृकासु 'निर्वृत्ति') एषि मुक्तिं प्रामोषि । किं० ब्रह्म ? । आत्मनीनं । कोऽर्थः ? । आत्मने हितं आत्मनीनम् । पुनः किं० ब्रह्म । विमलं निर्मलम् ॥ ७९ ॥ ... रात्रिः सैव पुनः स एव दिवसो मत्वा बुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तक्रियाः । व्यापारैः पुनरुक्तभुक्तविषयैरेवंविधेनामुना
संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥ ८० ॥ अहो इति दुःखे । अमुना एवंविधन संसारेण कदर्थिताः। कस्मात् ? । मोहात मौढ्यात् । कथं ? । न लज्जामहे । कैः ? । व्यापारैः । किं० व्यापारैः ? । पुनरुक्तमुक्तविषयैः पुनरुक्तानि पुनर्विहितानि यानि भुक्तानि भोजनानि अन्यच्च विषयाः तैः । बुधाः पण्डिताः जन्तवः प्राणिनः उद्यमिनः उद्यमवन्तो धावन्ति । किं. जन्तवः ? । तथैव पुनः पुनः निभृतप्रारब्धतत्तक्रियाः वारं वारं निभृताः प्रारब्धाः तत्तक्रिया यैस्ते । किं० कृत्वा ? । तां रात्रि मत्वा पुनः तथैव दिवसं मत्वा ज्ञात्वा । यतः प्रोक्तम्. १ ख. विकासि; ग. विशोकं । २ ग. तब्रह्म चिन्तय किमेभिरसद्विकल्पैः। ३ ख." घ. भुवना। ४ग. मता। ५ छ. आत्मनीयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org