SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [३.७५-७७] वैराग्यशतकम् [हे प्रभो ] हे शंभो! अहं एतादृशः कदा भविष्यामि । किं. अहम् ? । एकाकी अद्वितीयः। पुनः किं० अहम् ? । निस्पृहः । पुनः किं० अहम् ? । शान्तः । पुनः किं० अहम् ।। पाणिपात्रः पाणिरेव पात्रं भाण्डं यस्य स पाणिपात्रः । पुनः किं० अहम् ? । दिगम्बरः दिश एव अम्बरं यस्य असौ दिगम्बरः । पुनः किं० अहम् ? । कर्मनिर्मूलनक्षमः कर्मणां निर्मूलनं कर्मनिर्मूलन कर्मनिर्मूलने क्षमः कर्मनिर्मूलनक्षमः ॥ ७४ ॥ प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । सन्मानिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ ७५ ॥ श्रियो लक्ष्म्यः प्राप्ताः ततः किम् । किं० श्रियः ? । सकलकामदुधाः समस्तमनोरथदोग्ध्यः । विद्विषतां शिरसि मस्तके पदं दत्तं (ख. न्यस्तं) ततः किम् । प्रणयिनः स्नेहिनः विभवैर्धनैः सन्मानिताः ततः किम् । तनुभृतां प्राणिनां [ तनुभिः] शरीरैः कल्पं कल्पान्तं यावत् स्थितं प्राणितं ततः किम् । एतावता संसारस्य निर्ममतैव वरम् ॥ ७५ ॥ भक्तिर्भवे मरणजन्मभयं हृदिस्थं __स्नेहो न बन्धुषु न मन्मथजा विकाराः । संसर्गदोषरहिता विजना वनान्ता वैराग्यमस्ति किमतः परमार्थनीयम् ॥ ७६ ॥ अतः परं वैराग्यमस्ति । तत् किम् ? । भक्तिर्भवे महेशे । अन्यच्च हृदिस्यं मरणजन्मभयम् । अन्यच्च बन्धुषु स्नेहो न । अन्यच्च मन्मथजाः कामोद्भवा विकारा न । अन्यच्च वनान्ताः विजनाः जनरहिताः । किं० वनान्ताः । संसर्गदोषरहिताः संसर्गस्य दोषः संसर्गदोषः तेन रहिताः संसर्गदोषरहिताः । अतोऽपि वैराग्यं किमपि नास्ति । किं० वैराग्यम् ।। परमार्थनीयं परमत्तत्त्वयुक्तम् (हं. 'युतम् ) ॥ ७६ ॥ जीर्णा कन्था ततः किं सितममलपटं पट्टसूत्रं ततः किं एका भार्या ततः किं हेयकरिसुगणैरावृतो वा ततः किम् । भक्तं भुक्तं ततः किं कदशनमथ वा वासरान्ते ततः किं ___ व्यक्तं ज्योतिर्न चान्तर्मथितभवभयं वैभवं वा ततः किम् ॥७॥ १ घ. संमानिताः। २ ग. परमर्थ । ३ ज. परं पट्टकूल। ४ च. त्वेका; ज. 'एषा। ५ च. करितुरगगणैरा। ६ ख. वान्तं । हं. श्लोकोऽयं न दृश्यते । ख. जीणेति सुगमम् । च. अस्य टीका न । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy