SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिकृत - शतकत्रयम् [ ३. ७२-७४ ] यत् तु खलानां दुर्जनानां मुखानि वीक्ष्यन्ते विलोक्यन्ते । यत्तदोर्नित्यसंबन्धः । तत् किं कन्दरेभ्यः कन्दाः प्रलयमुपगताः क्षयं जग्मुः । वा अथवा गिरिभ्यः पर्वतेभ्यः निर्झराः प्रलयमुपगताः । वा अथवा वल्कलेभ्यस्तरुभ्यः शाखाः प्रध्वस्ताः विनाशमुपजग्मुः । किं० शाखाः ? । सरसफलभृतः सरसानि फलानि बिभ्रतीति सरसफलभृतः । किं० खलानां ? । प्रसभं यथा भवति ( तथा ) उपगतप्रश्रयाणां प्रोल्लसद्गर्वाणां । किं० मुखानि ? । दुःखोपात्ताल्पवित्तस्मयनशपवनानर्तितभ्रूलतानि दुःखेन उपात्तं उपार्जितं यदपं वित्तं तस्य स्मयवशपवनेन आ समन्ताद्भावेन नर्तिता भ्रूलता यैः तानि दुःखोपात्ताल्पवित्तस्मयवशपवनानर्तितभ्रूलतानि ॥ ७१ ॥ गङ्गातरङ्गकणशीकरशीतलानि विद्याधराध्युषितचारुशिलातलानि । २०८ स्थानानि किं हिमवतः प्रलयं गतानि यत् सावमानपरपिण्डरता मनुष्याः ॥ ७२ ॥ मनुष्याः यत् सावमानपरपिण्डरता वर्तन्ते । तत् किं हिमवतः स्थानानि प्रलयं गतानि । किं० हिमवतः स्थानानि ? । गङ्गातरङ्गकणशीकरशीतलानि गङ्गायास्तरङ्गा गङ्गातरङ्गतः तेषां कणशीकरैः शीतलानि गङ्गातरङ्गकणशीकरशीतलानि । पुनः किं० हिमवतः स्थानानि ? विद्याधराध्युषितचारुशिलातलानि विद्याधरैरध्युषितानि सेवितानि अधिष्ठितानि चारुशिलातलानि येषां तानि । एवंविधानि स्थानानि चेत् न स्युस्तदा परतिरस्कारपिण्डरताः नराः भवेयुः । एतावता परावमानात् तान्येव स्थानानि सेवितानि वरम् ॥ ७२ ॥ यदा मेरुः श्रीमान् निपतति युगान्ताग्निनिहेतः समुद्राः शुष्यन्ति प्रचुरनिकरग्राहनिलयाः । धरा गच्छत्यन्तं धरणिधरपादैरपि धृता शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ७३ ॥ यदा श्रीमान् मेरुः युगान्ताग्निनिहतो ( हं. 'हितो ) निपतति । समुद्राः शुष्यन्ति ( हूं. पुष्यन्ति ) । किं० समुद्रा: : । प्रचुरनिकरग्राहनिलयाः प्रचुराश्च ते निकराः समूहाः [ ते.. सन्ति येषां तेषां ] ग्राहाणां जलचरजीवानां निलयाः गृहाणि येषु ते प्रचुरनिकरग्राहनिळ्याः । अपि पुनः धरा वसुंधरा अन्तं गच्छति विलयं व्रजति । किं० धरा ? | धरणिधरपादैः धृतापि अवलम्बितापि । तदा शरीरे का वार्ता । किं० शरीरे ? । करिकलभकर्णाग्रचपले करिकलभानां कर्णाग्रवत् चपलं करिकलभकर्णाचपलं तस्मिन् ॥ ७३ ॥ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ७४ ॥ १ ज, सदा । २ छ. 'निहितः । Jain Education International ३ घ. छ. धृताः । ४. शंभुवि । For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy