________________
बैराग्यशतकम्
इयं बाला मां प्रत्यनवरतमिन्दीवरदलप्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनेया ।
[ ३.६९-७१]
तो मोहोऽस्माकं स्मरकुसुमबाणव्यतिकरज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ ६९ ॥
[ इयं बाला मां प्रति चक्षुर्नेत्रं अनवरतं निरन्तरं किं क्षिपति । ] कथंभूतं नेत्रम् ? । इन्दीवरदलप्रभाचोरं इन्दीवरस्य कमलस्य दलं इन्दीवरदलं तस्य प्रभां चोरयतीति इन्दीवरदलप्रभाचौरम् | अनया किमभिप्रेतं किं वाञ्छितम् । अस्माकं मोहो गतः । स्मरकुसुमबाणव्यतिकरज्वरज्वाला शान्ता । वराकी तदपि न विरमति ॥ ६९ ॥
रम्यं हर्म्यतलं न किं वैसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये । किं तद्भान्तपतत्पतंग पवनव्यालोलदीपाङ्कर
च्छायाचञ्चलमाकलय्य सकॅलं सन्तो वनान्तं गताः ॥ ७० ॥
2013
सन्तः सत्पुरुषा वनान्तं गताः । किमिति संभावनायाम् । तेषां वसतये निवासाय हर्म्यातलं रम्यं नाभूत् । [ किमिति संभावनायाम् । वा अथवा श्रव्यं श्रवणार्ह गेयादिक गीतादि नाभूत् । अपि तु बभूव । वा अथवा किमिति संभावनायाम् । प्राणसमासमागमसुखं प्राणसमा प्राणतुल्या प्रिया तस्याः समागमः सङ्गः तस्य सुखं प्राणसमासमागमसुखं । अधिकप्रीतये अतिप्रसन्नतायै नाभूत् । अपि तु अभूत् । ] तथापि सन्तो वनान्तं गताः वनं सेवयामासुः । [ तु पुनः किं किमर्थं वनं सेवयामासुः ? । उद्भ्रान्तपतत्पतंगपवनव्यालोलदीपाङ्कुरच्छायाचश्चलं उद्भ्रान्तः चक्षुर्लेभेन भ्रमं प्राप्तः योऽसौ पतत्पतंगः तस्य पवनेन व्यालोला चञ्चला या दीपाङ्कुरस्य छाया कान्तिस्तद्वच्चञ्चलं ] सकलं जीवलोकं आकलय्य विचिन्त्य हृदये ज्ञात्वा इत्यर्थः ॥ ७० ॥ किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वर्कलेभ्यश्च शाखाः । वीक्ष्यन्ते यन्मुखानि प्रसभमुपगतप्रश्रयाणां खलानां • दुःखोपात्ताल्पवित्तस्मयवैशपत्र नानर्तित भ्रूलतानि ॥ ७१ ॥
१ च. छ. ज. चौरं । २ ज. 'मनसा । हं. कोशे प्रथमपादो लभ्यते । ३ हं. वसंत• समये । ४ ज. श्राव्यं । ५ ख. घ. प्राणसमं । ६ ख. घ. नैवाधिकं । ७ ख. घ. सततं । ८ घ. ज. निर्जरा । ९ हं. वल्कलिभ्यश्च । १० च. 'चित्तस्मय' । ११ ज. 'विष' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org