Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 160
________________ १२५ [३.१९७-११८] वैराग्यशतकम् पातालान्न विमोचितो बत बलिनीतो न मृत्युः क्षयं नोन्मृष्टं शशिलाञ्छनं च मलिनं नोन्मूलिता व्याधयः । शेषस्यापि धेरां विधृत्य न कृतो भारावतारः क्षणं चेतः सत्परुषाभिमानगणनां मिथ्या वहन् लजसे ॥११७ ॥ - रे चेतः! मिथ्या सत्पुरुषाभिमानगणनां वहन् न लजसे न ब्रीडां वहसि । कथम् ? । बत इति खेदे । पातालात् बलिर्बन्धनान्न विमोचितः । अन्यच्च मृत्युर्यमः क्षयं न नीतः निधनं न प्रापितः । चान्यत् । शशिलाञ्छनं न उन्मृष्टं न परामृशत् ( ? °मृष्टम् ) । किं० शशिलाञ्छनम् । मलिनं मलीमसम्। चान्यत्। व्याधयो जन्तोरुपकारकृते नोन्मूलिताः। शेषस्थापि धरणीधरस्यापि धरां स्वस्कन्धे विधृत्य क्षणं क्षणमात्रं भारावतारो न कृतः । रे आत्मन् ! तदा त्वं सत्पुरुषत्वं किं वहसि ॥ ११७ ॥ . प्रशान्तशास्त्रार्थविचारचापलं निवृत्तनानारसकाव्यकौतुकम् । निरस्तनिःशेषविकल्पविस्तरं प्रपत्तुमन्विच्छति शंकरं मनः॥११८॥ मनः चेतः शंकरमनु प्रपत्तुमिच्छति । किं० मनः ? । प्रशान्तशास्त्रार्थविचारचापलं प्रशान्ताः ये शास्त्रार्थास्तेषां शास्त्रार्थानां विचारेषु चापलम् । पुनः किं० मनः । निवृत्तनानारसकाव्यकौतुकं निःशेषं वृत्तं प्रवृत्तं नानारसकाव्यकौतुकं यस्य तत् । पुनरपि किं० मनः।। निरस्तनि शेषविकल्पविस्तरं निरस्तः निराकृतः निःशेषो विकल्पानां विस्तरो यस्य तत् । एवंविध मनः शंकरं वाञ्छति ॥ ११८ ॥ ॥ इति भर्तृहरटीकेयं तृतीयस्य वैराग्यशतकस्य समाप्ता ॥ १ख. घ. च, छ. ज. RASB 7747। २ ख. घ. छ. समुद्धृतो। ३ख. छ. मृत्युनं नीतः। ४ छ. शशलाञ्छनस्य । ५ छ. वरां । ६ छ. तारावतारः। ७ हं . गणितां; क. पदवीं। ८ क. खिद्यसे छ. विद्यसे । ९ च. छ. ज. कोशेषु प्राप्यते । १० छ. 'वाक्य। ११च. ज. विप्लवं । १२ च. छ. ज. प्रयातुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188