Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 156
________________ [३.१०७-१०८] वैराग्यशतकम् १२१ आधिव्याधिशतैर्वयस्यतितरामारोग्यमुन्मूल्यते । - लक्ष्मीर्यत्र पैतत्रिवच्च विवृतद्वारा इव व्यापदः। जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात् तत् किं केन निरङ्कुशेन विधिना यन्निर्मितं सुस्थितम् ॥१०७॥ नाम इति संबोधने । तत् किम् यत् निरङ्कुशेन निराशकेन [ केन अव्यवस्थितेन ] विधिना दैवेन सुस्थितं निर्मितम् । किं तत् । वयसि शरीरे आधिव्याधिशतैः अतितरां अतिशयेन आरोग्यमुन्मूल्यते । तत्र आधिर्मानसी पीडा व्याधी रोगसमुद्भवा । चान्यत् । [यत्र] अय)स्मिन् दैवनिर्माणे लक्ष्मीः पतत्रिवत् पक्षिवत् पतनस्या (स्था)ना वर्तते। व्यापदः विवृतद्वारा इव उद्घाटितकपाटा इव वर्तन्ते। अवश्यं निश्चितं आशु .शीघ्रं मृत्युर्यमः जातं जातं उत्पन्नमुत्पन्नं आत्मसात् करोति आत्मायत्तं विधत्ते । ततः अस्य दैवस्य निर्माणे किमपि व्यवस्थितं स्थिरं नास्तीत्यागमः ॥ १०७॥ कृच्छ्रेणामध्यमध्ये नियमिततनुभिः स्थीयते गर्भमध्ये कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने विप्रयोगः । नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः संसारे रे मनुष्या वैदत यदि सुखं खल्पमप्यस्ति किंचित्॥१०॥ - रे मनुष्याः वदन्तु (१ त) कथयन्तु (? त) । यदि चेत् संसारे खल्पमपि सुखं किंचिदस्ति । गर्भमध्ये कृच्छेण कष्टेन नियमिततनुभिः संकोचितशरीरैः स्थीयते । किं. गर्भमध्ये ।। अमेध्यमध्ये अमेध्यं मध्ये यस्य तदमेध्यमध्यं तस्मिन् । अस्मिन् संसारे यौवने विप्रयोगः । किं० यौवने ? । कान्ताविश्लेषदुःखव्यतिकरविषमे कान्तायाः विश्लेषः कान्ताविश्लेषः तस्य योऽसौ दुःखव्यतिकरस्तेन विषमः (छ. निकरः) कान्ताविश्लेषदुःखव्यतिकरविषम• स्तस्मिन् । अपि पुनः नारीणामवज्ञा अवगणनं विलसति । अपि पुनः नियतं निश्चितं वृद्धभावः असाधुः । अस्मात् कारणात् संसारे किमपि साख्यं नास्ति ॥ १०८॥ .. आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्ध गंतं . तस्यार्धस्य परस्य चार्धमपरं बोलत्व-वृद्धत्वयोः । १ ग. जनस्य विविधैः। २ ख. ग. घ. उन्मील्यते। ३ ग. पतन्ति तत्र । ४ ख. घ. सस्थिरम। ५ग. विषमो। ६क. विलसितनि: ग. वसतिरनि। ७छ. वदत। दग. स्वल्पमल्पस्ति । ९ ज. कृतं; हं. तदर्धाकृतं । १० ख. घ. कदाचिदर्धमधिकं । ११ ख. वृद्धत्वबाल्ये गतम्। घ. ज. बाल्यत्ववृद्धत्वयोः । १६ शतकत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188