Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 151
________________ ११६ भर्तृहरिकृत-शतकत्रयम् _ मनोरथाः स्वहृदये जीर्णाः एव । यौवनं [जरां यातं ] जराव्याप्तम् । हन्तेति खेदे । चान्यत् । गुणा [ अङ्गेषु ] वन्ध्यफलतां गुणविना जाताः । अक्षमी बलवान् कालो यमः सहसा अभ्युपैति । किं युक्तम् ? | हि निश्चितम् । आज्ञातम् आ समन्ताद्भावेन ज्ञातं । [ किम् आज्ञातम् ?।] त्रिपुरान्तकाझियुगलं मुक्त्वा अन्या गतिनास्ति । किं० कालः ? । कृतान्तः कृतोऽन्तो येन सः कृतान्तः ॥ ९३ ॥ तृषा शुष्यत्यास्ये पिबति सलिलं स्वादुसुरभि क्षुधातः सञ् शालीन् केवलयति शाकादिवलितान् । प्रदीप्ते रागाग्नौ सुदृढतरमाश्लिष्यति वधूं . प्रतीकारो व्याधेः सुखमिव विपर्यस्यति जनः ॥ ९४ ॥ - प्राणी सलिलं पानीयं पिबति । क्व सति ? । आस्से वदने तृषा शुष्यति सति । किं० सलिलम् ? । स्वादुसुरभि । प्राणी क्षुधार्तः सन् शालीन कवलयति अत्ति । किं० शालीन् ? । शाकादिवलितान् । प्राणी रागानौ प्रदीप्ते सति सुदृढतरं यथा भवति वधूं भार्या आश्लिष्यति आलिङ्गते । जनः प्राणी व्याधेः प्रतीकारः उपचारः [ योऽस्ति तं] सुखमिव विपर्यस्पतिः विपर्यासं करोति ।। ९४ ॥ ... स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां ध्येये ध्यानं निवेय क्षितिधरकुहरग्रावपर्यङ्कले । आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात् स्मरारे दुःखं मोक्ष्ये कदाहं तव चरणरतो ध्यानमार्गप्रश्नः ॥ ९५ ॥ - हे स्मरारे ! कदा दुःखान्मोक्ष्ये । किं कृत्वा ? । गाङ्गैः पयोभिः (है. ख. च. त्यां) स्नात्वा। हे विभो! चान्यत् शुचिकुसुमफलैरर्चयित्वा । पुनः किं कृत्वा । क्षितिधरकुहरग्रावपर्यङ्कमूले ध्येये कर्मणि ध्यानं निवेश्य । क्षितिधरस्य कुहरं क्षितिधरकुहरम् । क्षितिधरकुहरस्य यत् प्रावं तदेव पर्यंकं तस्य यन्मूलं [ तत् ] क्षितिधरकुहरगावपर्यङ्कमूलं तस्मिन् । किं० अहम् ? । आत्मारामः। पुनः किं० अहम् ? । फलाशी। पुनः किं० अहम् ।। त्वत्प्रसादाद् गुरुवचनरतः। पुनः किं० अहम् ? । ध्यानमार्गकप्रश्न: (घनः, प्रश्नः)। [पुनः किं० अहम् ।।] तव चरणरतः ॥९५॥ . शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः। सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः। . १ ज. कुवलयति । २ च. सुहृदतर । ३ ग. सुखमिति। ख. ग. घ. नियोज्य । ५हं. मूलं। ६.ग. रामोपलीनो। ७छ. दुःखान् । ८ख. मोक्षे कदाहं, घ. मोक्षकदाह। ९च. प्रश्नः; हं. छ. ज. °घनैः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188