Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 145
________________ भर्तृहरिकृत-शतकत्रयम् [ ३.७८-८०.] तस्मादनन्तमजरं परमं विकाशि तेद् ब्रह्म वाञ्छत जना यदि चेतनस्थाः। यस्यानुषङ्गिण इमे भवनाधिपत्य भोगादयः कृपणलोकरता भवन्ति ॥ ७८ ॥ हे जनाः! यदि यूयं चेतनस्थाः तत तस्मात ब्रह्म वाञ्छत । किं. ब्रह्म ? । अनन्तं अन्तरहितं अजरं जरावर्जितं । पुनः किं० ब्रह्म ? । परमं विकाशि । यस्य परब्रह्मणः इमे भवनाधिपत्यभोगादयः अनुषङ्गिणो भवन्ति अनुयायिनो वर्तन्ते । किं० भवनाधिपत्यभोगादयः ? । कृपणलोकरताः तुच्छजनविभ्रमाः ॥ ७८ ।। पातालमाविशसि यासि नभो विलय दिग्मण्डलं भ्रमसि मानसचापलेन । भ्रान्त्यापि जातु विमलं कथात्मनीनं तद् ब्रह्म न स्मरसि निर्वृतिमेषि येन ॥ ७९ ॥ रे मूढ ! पातालमाविशसि । अन्यच्च नभः आकाशं विलय यासि । अन्यच्च दिग्मण्डलं भ्रमसि । केन ? । मानसचापलेन मानसस्य चापलं मानसचापलं तेन । जातु कदा चित् भ्रान्त्यापि तद् ब्रह्म कथं न स्मरसि । येन ब्रह्मणा निवृतिम् ( मातृकासु 'निर्वृत्ति') एषि मुक्तिं प्रामोषि । किं० ब्रह्म ? । आत्मनीनं । कोऽर्थः ? । आत्मने हितं आत्मनीनम् । पुनः किं० ब्रह्म । विमलं निर्मलम् ॥ ७९ ॥ ... रात्रिः सैव पुनः स एव दिवसो मत्वा बुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तक्रियाः । व्यापारैः पुनरुक्तभुक्तविषयैरेवंविधेनामुना संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥ ८० ॥ अहो इति दुःखे । अमुना एवंविधन संसारेण कदर्थिताः। कस्मात् ? । मोहात मौढ्यात् । कथं ? । न लज्जामहे । कैः ? । व्यापारैः । किं० व्यापारैः ? । पुनरुक्तमुक्तविषयैः पुनरुक्तानि पुनर्विहितानि यानि भुक्तानि भोजनानि अन्यच्च विषयाः तैः । बुधाः पण्डिताः जन्तवः प्राणिनः उद्यमिनः उद्यमवन्तो धावन्ति । किं. जन्तवः ? । तथैव पुनः पुनः निभृतप्रारब्धतत्तक्रियाः वारं वारं निभृताः प्रारब्धाः तत्तक्रिया यैस्ते । किं० कृत्वा ? । तां रात्रि मत्वा पुनः तथैव दिवसं मत्वा ज्ञात्वा । यतः प्रोक्तम्. १ ख. विकासि; ग. विशोकं । २ ग. तब्रह्म चिन्तय किमेभिरसद्विकल्पैः। ३ ख." घ. भुवना। ४ग. मता। ५ छ. आत्मनीयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188