Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown
________________
[३.७५-७७]
वैराग्यशतकम् [हे प्रभो ] हे शंभो! अहं एतादृशः कदा भविष्यामि । किं. अहम् ? । एकाकी अद्वितीयः। पुनः किं० अहम् ? । निस्पृहः । पुनः किं० अहम् ? । शान्तः । पुनः किं० अहम् ।। पाणिपात्रः पाणिरेव पात्रं भाण्डं यस्य स पाणिपात्रः । पुनः किं० अहम् ? । दिगम्बरः दिश एव अम्बरं यस्य असौ दिगम्बरः । पुनः किं० अहम् ? । कर्मनिर्मूलनक्षमः कर्मणां निर्मूलनं कर्मनिर्मूलन कर्मनिर्मूलने क्षमः कर्मनिर्मूलनक्षमः ॥ ७४ ॥
प्राप्ताः श्रियः सकलकामदुधास्ततः किं
दत्तं पदं शिरसि विद्विषतां ततः किम् । सन्मानिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ ७५ ॥ श्रियो लक्ष्म्यः प्राप्ताः ततः किम् । किं० श्रियः ? । सकलकामदुधाः समस्तमनोरथदोग्ध्यः । विद्विषतां शिरसि मस्तके पदं दत्तं (ख. न्यस्तं) ततः किम् । प्रणयिनः स्नेहिनः विभवैर्धनैः सन्मानिताः ततः किम् । तनुभृतां प्राणिनां [ तनुभिः] शरीरैः कल्पं कल्पान्तं यावत् स्थितं प्राणितं ततः किम् । एतावता संसारस्य निर्ममतैव वरम् ॥ ७५ ॥
भक्तिर्भवे मरणजन्मभयं हृदिस्थं __स्नेहो न बन्धुषु न मन्मथजा विकाराः । संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमतः परमार्थनीयम् ॥ ७६ ॥ अतः परं वैराग्यमस्ति । तत् किम् ? । भक्तिर्भवे महेशे । अन्यच्च हृदिस्यं मरणजन्मभयम् । अन्यच्च बन्धुषु स्नेहो न । अन्यच्च मन्मथजाः कामोद्भवा विकारा न । अन्यच्च वनान्ताः विजनाः जनरहिताः । किं० वनान्ताः । संसर्गदोषरहिताः संसर्गस्य दोषः संसर्गदोषः तेन रहिताः संसर्गदोषरहिताः । अतोऽपि वैराग्यं किमपि नास्ति । किं० वैराग्यम् ।। परमार्थनीयं परमत्तत्त्वयुक्तम् (हं. 'युतम् ) ॥ ७६ ॥
जीर्णा कन्था ततः किं सितममलपटं पट्टसूत्रं ततः किं
एका भार्या ततः किं हेयकरिसुगणैरावृतो वा ततः किम् । भक्तं भुक्तं ततः किं कदशनमथ वा वासरान्ते ततः किं ___ व्यक्तं ज्योतिर्न चान्तर्मथितभवभयं वैभवं वा ततः किम् ॥७॥
१ घ. संमानिताः। २ ग. परमर्थ । ३ ज. परं पट्टकूल। ४ च. त्वेका; ज. 'एषा। ५ च. करितुरगगणैरा। ६ ख. वान्तं । हं. श्लोकोऽयं न दृश्यते । ख. जीणेति सुगमम् । च. अस्य टीका न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188