Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 126
________________ वैराग्यशतकम् पुरा विद्वत्तासीदुपशमवतां क्लेशहतये गता कालेनासौ विषयसुखसिद्ध्यै विषयिणाम् । इदानीं तु प्रेक्ष्य क्षितितलभुजः शास्त्रविमुखान् अहो कष्टं सापि प्रतिदिनमधोधः प्रविशति ॥ २९ ॥ [ ३.२९-३१ ] पुरा पूर्व उपशमवतां विद्वत्ता वैदुष्यं क्लेशहतये संसारनिवारणाय आसीत् । असौ विद्वत्ता कालेन गच्छता विषयिणां पुरुषाणां विषयसुखसिद्ध्यै गता । अहो इति खेदे । कष्टं विलोक्यताम् । इदानीं [तु] सापि विद्वत्ता प्रतिदिनं दिनं दिनं प्रति अधोधः प्रविशति । [ किं ? ] कृत्वा ? | शास्त्रविमुखान् क्षितितलभुजः प्रेक्ष्य निरीक्ष्य ॥ २९ ॥ साहंकारपुरुषस्योद्दिश्याह स जातः कोऽप्यासीनमदनरिपुणो (१° णां ) मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितमलंकार विधये । नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ ३० ॥ स जातः कोऽपि पुरुषः आसीत् । यस्य पुरुषस्य कपालं उच्चैर्यथा भवति मदनरिपुणोर (? पुणा ) ( ख. रिपोर्) महेशस्य ( ° शेन ) मूर्ध्नि मस्तके अलंकार विधये (ख. च. विषये ) विनिहितम् । किं० कपालम् ? । धवलं उज्ज्वलं । अधुना इदानीं कैश्चिन्नमद्भिः (हं. अनमद्भिः) नृभिः पुंसां पुरुषाणां कोऽयं अतुलदर्पज्वरभरः । किं० नृभिः ? | प्राणत्राणप्रवणमतिभिः प्राणस्य त्राणं प्राणत्राणं प्राणत्राणे प्रवणा मतिः येषां ते प्राणत्राणप्रवणमतयः तैः । शिवस्य शिरः पूजाकारी मृतोऽपि धन्यः । अन्ये राज्यस्मृतोऽपि (3) जीवन्तोऽपि मृताः । शिवभक्त्यभावात् ॥ ३०॥ नामीशिषे त्वं वयमपि च गिरामीमहे यावदित्थं शूरस्त्वं वाग्मिदर्पज्वरशैमनविधावक्षयं पाटवं नः । सेवन्ते त्वां धनान्धा मतिमलहतये मामपि श्रोतुकामा मामप्यास्थानमेतत् त्वयि मम सुतरामेष राजन् गतोऽसि ॥ ३१ ॥ हे राजन् ! त्वं अर्थानां ईशिषे त्वं समर्थो भवसि । चान्यत् । वयमपि गिरां वाणीनां ईश्महे समर्थाः भवामः । चान्यत् । त्वं यावत् इत्थं अमुना प्रकारेण शूरो नो अस्माकं १'हं. 'नाशौ । २ हं. ज. सा । ३ख. ग. मदनविजयिनो; घ. मदनजयिनो । ४ ज. विनिहतम् । ५ च 'प्रणव' । ६ ज. ज्वरमतुल' । ७ ख. घ. मामिह । मय्यप्यास्थानं, ग. मानाप्यास्थानं, च. मानप्यास्थानं । ९ ख. घ. गतोऽस्मि । ८ ख. घ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188