Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 135
________________ भर्तृहरिकृत-शतकत्रयम् [ ३.५१-५२ ] विद्या ? | कलङ्करहिता दोषरहिता । निस्तुषा इत्यर्थः । चान्यत् । वित्तं नोपार्जितम् । अपि पुनः समाहितेन मनसा निश्चलचित्तेन पित्रोः माताजनकयोः शुश्रूषापि न संपादिता न विहिता न कृता । चान्यत् स्वप्नेऽपि युवतयो नालिंगिताः । किं० युवतयः ? । आलोलायतलोचनाः आ समन्ताद् भावेन लोलानि चपलानि आयतानि दीर्घाणि लोचनानि यासां ता आलोलायतलोचनाः । तस्मात् कारणात् मुधैव जन्म गमितम् ॥ ५० ॥ ܘܕ • वितीर्णे सर्वस्त्रे तरुणकरुणापूर्णहृदयाः स्मरन्तः संसारे विगुणपरिणामावधिगतीः । वयं पुण्येऽरण्ये परिणति ( १ त ) शरच्चन्द्रकिरणैस् त्रियामा नेष्यामो हरचरणचित्तैकशरणाः ॥ ५१ ॥ वयं पुण्ये पवित्रेऽरण्ये कदा त्रियामा (ख. मां ) नेष्यामः । कैः समम् ? | परिणति(? त) शरच्चन्द्रकिरणैः समम् । कोऽर्थः ? | परिणताः ( हं. 'णिताः ) परिणामं प्राप्ता ये शरत्कालीनाः चन्द्रकिरणाः [ते] परिणतशरच्चन्द्रकिरणा स्तैः । क्व सति । सर्वस्वे सर्वधने वितीर्णे सति । किं० वयम् ? । तरुणकरुणापूर्णहृदयाः तरुणकरुणया पूर्ण हृदयं येषां ते तरुणकरुणापूर्णहृदयाः । वयं किं कुर्वन्तः ? । संसारे विगुणपरिणामावधि गतीः स्मरन्तः । विगुणपरिणामाः अवधयो [ यासां तास्तथाविधाः ] गतयः विगुणपरिणामावधिगतयस्ताः । पुनः किं० वयम् । हरचरणचित्तैकशरणाः हरचरणावेव चित्तस्य एकं शरणं येषां ते हरचरणचित्तैकशरणाः ॥ ५१ ॥ वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषविशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि तु परितुष्टे को ऽर्थवान् को दरिद्रः ॥ ५२ ॥ हे ! राजेन्द्र ! इह् अस्मिन् संसारे वयं वल्कलैः कृत्वा परितुष्टाः । चान्यत् । त्वं लक्ष्म्या - परितुष्टः । एतावता संतोषस्य तत्त्वमेकमेव । इह अस्मिन्नर्थे परितोषः सम एव । किं० परितोषः ? | निर्विशेषावशेषः निर्विशेष एव अवशेषोऽवसानं यस्य स निर्विशेषावशेषः । विशेषश्चायम् - तु पुनः स दरिद्रो भवतु यस्य पुरुषस्य विशाला विस्तीर्णा तृष्णा । अनन्ततृष्णस्य पुंसः दरिद्रं (दारिद्र्यं ) क्वापि न यातीत्यागमः । तु पुनः मनसि परितुष्टे सति कोऽर्थवान् को दरिद्रः । अपि तु न कोऽपि ॥ ५२ ॥ १ हं. च. परिणिति ; छ. परिणित । २ ज. प्रियामा । ३ख. घ. हरि । ४ हं. ग. च. ज. 'शेषो वि' । ५ ग. ज. च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188