________________
भर्तृहरिकृत-शतकत्रयम्
[ ३.५१-५२ ]
विद्या ? | कलङ्करहिता दोषरहिता । निस्तुषा इत्यर्थः । चान्यत् । वित्तं नोपार्जितम् । अपि पुनः समाहितेन मनसा निश्चलचित्तेन पित्रोः माताजनकयोः शुश्रूषापि न संपादिता न विहिता न कृता । चान्यत् स्वप्नेऽपि युवतयो नालिंगिताः । किं० युवतयः ? । आलोलायतलोचनाः आ समन्ताद् भावेन लोलानि चपलानि आयतानि दीर्घाणि लोचनानि यासां ता आलोलायतलोचनाः । तस्मात् कारणात् मुधैव जन्म गमितम् ॥ ५० ॥
ܘܕ
•
वितीर्णे सर्वस्त्रे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामावधिगतीः । वयं पुण्येऽरण्ये परिणति ( १ त ) शरच्चन्द्रकिरणैस् त्रियामा नेष्यामो हरचरणचित्तैकशरणाः ॥ ५१ ॥
वयं पुण्ये पवित्रेऽरण्ये कदा त्रियामा (ख. मां ) नेष्यामः । कैः समम् ? | परिणति(? त) शरच्चन्द्रकिरणैः समम् । कोऽर्थः ? | परिणताः ( हं. 'णिताः ) परिणामं प्राप्ता ये शरत्कालीनाः चन्द्रकिरणाः [ते] परिणतशरच्चन्द्रकिरणा स्तैः । क्व सति । सर्वस्वे सर्वधने वितीर्णे सति । किं० वयम् ? । तरुणकरुणापूर्णहृदयाः तरुणकरुणया पूर्ण हृदयं येषां ते तरुणकरुणापूर्णहृदयाः । वयं किं कुर्वन्तः ? । संसारे विगुणपरिणामावधि गतीः स्मरन्तः । विगुणपरिणामाः अवधयो [ यासां तास्तथाविधाः ] गतयः विगुणपरिणामावधिगतयस्ताः । पुनः किं० वयम् । हरचरणचित्तैकशरणाः हरचरणावेव चित्तस्य एकं शरणं येषां ते हरचरणचित्तैकशरणाः ॥ ५१ ॥
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषविशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि तु परितुष्टे को ऽर्थवान् को दरिद्रः ॥ ५२ ॥
हे ! राजेन्द्र ! इह् अस्मिन् संसारे वयं वल्कलैः कृत्वा परितुष्टाः । चान्यत् । त्वं लक्ष्म्या - परितुष्टः । एतावता संतोषस्य तत्त्वमेकमेव । इह अस्मिन्नर्थे परितोषः सम एव । किं० परितोषः ? | निर्विशेषावशेषः निर्विशेष एव अवशेषोऽवसानं यस्य स निर्विशेषावशेषः । विशेषश्चायम् - तु पुनः स दरिद्रो भवतु यस्य पुरुषस्य विशाला विस्तीर्णा तृष्णा । अनन्ततृष्णस्य पुंसः दरिद्रं (दारिद्र्यं ) क्वापि न यातीत्यागमः । तु पुनः मनसि परितुष्टे सति कोऽर्थवान् को दरिद्रः । अपि तु न कोऽपि ॥ ५२ ॥
१ हं. च. परिणिति ; छ. परिणित । २ ज. प्रियामा । ३ख. घ. हरि । ४ हं. ग. च. ज. 'शेषो वि' ।
५ ग. ज. च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org