________________
पा।
[३.४८-५०]
वैराग्यशतकम् आसंसारं त्रिभुवनमिदं चिन्वतां तात! तादृङ्
नैवास्माकं नयनपदवीं श्रोत्रवागतो वा । योऽयं धत्ते विषयकरिणीगाढरूढाभिमानः
क्षीबस्यान्तःकरणकरिणः संयमालानलीलाम् ॥ ४८ ॥ _हे तात ! तादृक् कोऽपि पुमान् अस्माकं नयनपदवीं नेत्रगोचरं वा अथवा श्रोत्रवर्ती (ख. श्रोत्रमार्ग) श्रवणमार्गेण ( ? ) नागतः । यः अयं क्षीबस्यान्तःकरणकरिणः संयमालानलीलां धत्ते । किं० अयं? | विषयकरिणीगाढरूढाभिमानः विषय एव करिणी हस्तिनी तस्यां गाढरूढो (? ०ढः) अत्यन्तमारूढो( ? °ढः) अभिमानो यस्य सः । किंलक्षणानां अस्माकम् ? । आसंसारं यावत् इदं त्रिभुवनम् चिन्वतां संचयतां वर्धयताम् (?) । यो जितेन्द्रियः जेता स विरलः ॥४८॥
ये वर्धन्ते धनपतिपुरः प्रार्थनादुःखदीर्घा • ... ये चाज्ञत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः।
तेषामन्तःस्फुरितहसितं वासराणां स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ ४९ ॥ अहं तेषां वासराणां अन्तःस्फुरितहसितं ध्यानच्छेदे स्मरेयं चिन्तयामि । ये वासराः धनपतिपुरो धनाढ्यानां पुरस्तात् प्रार्थनादुःखदीर्घा वर्धन्ते । प्रार्थनादुःखेन दीर्घाः प्रार्थनादुःखदीर्घाः । चान्यत् । ये वासराः विषयाक्षेपपर्यस्तबुद्धेः प्राणिनः अज्ञत्वं अज्ञानत्वं दधति । विषयस्याक्षेपः आदरः विषयाक्षेपः विषयाक्षेपेण विषयादरेण पर्यस्ता निराकृता बुद्धिर्यस्य स विषयाक्षेपपर्यस्तबुद्धिः तस्य । किं० अहं ? । शिखरिकुहरग्रावशय्यानिषण्णः (हं. निषिन्नः ) शिखरिणः कुहरः शिखरिकुहरः, शिखरिकुहरस्य पर्वतविवरस्य ग्रावशय्यायां निषण्णः निविष्टः ॥ ४९ ॥
सांप्रतं निर्वेदतायाः स्वरूपमाहविद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं __शुश्रूषापि समाहितेन मनसा पित्रोन संपादिता । आलोलायतलोचना युवतयः स्वप्नेऽपि नालिङ्गिताः
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेरितः ॥ ५० ॥ - अहो अयं कालोऽस्माभिः परपिण्डलोलुपतया काकैरिव प्रेरितः। परपिण्डस्य परग्रासस्य लोलुपता परपिण्डलोलुपता तया । कथम् ? । अस्माभिः विद्या नाधिगता न पठिता। किं० . १छ. वर्तन्ते । २ ख. ग. घ. दुःखभाजो। ३ ख. ग. घ. चाल्पत्वं; हं. ज. चान्तत्वं । ४ख. घ. स्फुरति। ५ हं. ख. च. नाधिगताः। ६ ख. विरहिता। ७ ग. शुश्रूषा च । ८घ. संपादिताः। ९घ. प्रेषितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org