________________
भर्तृहरिकृत-शतकत्रयम्
[३. ४६-४७ देवो महादेवो नान्यः (छ. मान्यः) । सरिदपि नद्यपि सैव अमरसरित् सुरनदी । आगारं गृहं गुहा एव । वसनमपि वस्त्रमपि हरितः दिशः । वा अथ वा सुहृत् मित्रं अयं कालः । इदं व्रतं अदैन्यव्रतं इदं । [वा अथवा ] कियत् वक्ष्यामः । दयिता कलत्रं पटविटप एव अस्तु ॥ ४५ ॥
शिरः शार्व वर्गात् पशुपतिशिरस्तः क्षितिधरं
गिरीन्द्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । . अधोऽधो गाङ्गेयं पदमुपगता स्तोकमथ वा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ ४६ ॥ शाम (मा?)हेशं शिरः स्वर्गादधो वर्तते। पशुपतिशिरस्तः महेश्वरमस्तकात् क्षितिधरः (१९) [अधो जानीहि ] । उत्तुङ्गाद्रीिन्द्राद्' वर्तते ( ? ) अवनिं अधो जानीहि । अवनेश्थापि जलधि समुद्रं अधो जानीहि । स्तोकं गाङ्गेयं पदं अधोऽधः उपगतम् । अथवा विवेकभ्रष्टानां प्राणिनां विनिपातः शतमुखो भवति ॥ ४६ ॥
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तराऽतिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारंगता विशुद्धमनसो नन्दन्तु योगीश्वराः॥४७॥ नामेति संबोधने । आशा नदी अस्ति । किं० आशा नदी ? । मनोरथजला मनोरथा एव जलानि यस्यां सा । पुनः किं० आशा नदी ? । तृष्णातरङ्गाकुला । अन्यापि या नदी भवति सा तरङ्गाकुला भवति । इयं नदी तृष्णातरङ्गाकुला । पुनः किं० आशा नदी ? । रागग्राहवती स्नेहग्राहयुक्ता । युक्तम् । अन्यापि या नदी [सा ] ग्राहजलचरजीववती भवति । पुनः किं० आशा नदी ? । वितर्कविहगा वितर्को [विरुद्धो] विचारः, त एव विहगाः पक्षिणो यस्यां सा । नद्यामपि विहगा भवन्ति । अस्यामपि तथैव । पुनः किं० आशा नदी ? । धैर्यद्रुमध्वंसिनी धैर्यद्रुमस्य ध्वंसोऽस्यास्तीति धैर्यद्रुमध्वंसिनी । अन्यापि नदी द्रुमध्वंसिनी भवति । पुनः किं० आशा नदी ? । मोहावर्तसुदुस्तरा मोहस्य आवर्तो मोहावर्तस्तेन सुदुस्तरा मोहावर्तसुदुस्तरा । अन्यापि नदी सुदुस्तरा भवति । पुनः किं. आशा नदी ? । अतिगहना अतीव गहनं यस्याः सा अतिगहना। अन्यापि नदी अतिगहना भवति । पुनः किं० आशा नदी ? । प्रोत्तुङ्गचिन्तातटी प्रोत्तुङ्गा चिन्ता एव तटी यस्याः सा । अन्यापि नदी तटिनी प्रोच्यते । तस्या नद्याः पारगंता योगीश्वरा नन्दन्तु सर्वोत्कर्षेण वर्तन्ताम् । किंभूता योगीश्वराः ? । विशुद्धमनसो निर्मलमानसाः ॥ ४७॥
१ ख. ग. घ. सार्व। २ ख. ग. महीध्रात् । ३ ख. ग. घ. जलधिः । ४ ख. ग. घ.' अधो गङ्गा सेयं । ५ हं. मांगेयं । ६ हं. च. छ. उपगतं । ७ हं. पारिगता । ८ ग. नन्दन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org