________________
वैराग्यशतकम्
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
संप्राप्यन्ते जरंठहरिणाः शृङ्गकण्डूविनोदम् ॥ ४३ ॥
[ ३. ४३-४५ ]
किमिति संभावनायाम् । मम तैः सुदिवसैर्भाव्यम् । यत्र दिवसेषु जरठहरिणाः प्रौढमृगाः निर्विशङ्काः सन्तः [ निर्गता विशेषेण शङ्का येषां ते ] शृङ्गकण्डूविनोदं विषाणघर्षणलीलां संप्राप्यन्ते । किंभूतस्य मम ? । हिमगिरिशिलाबद्धपद्मासनस्य हिमगिरिशिलायां बद्धं पद्मासनं येन [सः ] हिमगिरिशिलाबद्धपद्मासनस्तस्य । क ? । गङ्गातीरे । पुनः किं० मम ? | योगनिद्रां गतस्य योगस्य निद्रा योगनिद्रा [तां], योगनिद्रायां (निद्रां ) प्राप्तस्य । केन ? | ब्रह्मध्यानाभ्यसनविधिना ब्रह्मध्यानस्य अभ्यसनं ब्रह्मध्यानाभ्यसनं, तस्य यो विधि : [ सः ] ब्रह्मध्यानाभ्यसनविधिः, तेन । एवंविधेन निर्मलभावेन सुखसाध्यसिद्धा (साध्या) सिद्धिः ॥ ४३ ॥ स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनः शान्तध्वनिषु रजनीषु घुसरितः । भवाभोगोद्विमः शिव शिव शिवत्यार्तवचसा
कदा स्यामानन्दोद्गतबहुल बोलत
॥ ४४ ॥
अहं शिव शिव शिवेत्यार्तवचसा कदा स्याम् ? । किं० अहं ? । भवा भोगोद्विनः भवस्य संसारस्याभोगस्तत्र उद्विग्नः । किंभूतेन वचसा ? । आनन्दोद्गतबहुलबाष्पप्लुतदृशा [ आनन्देन उद्गतानि बहुलानि बाष्पाणि तैः प्लुते दृशौ यस्मिन् तत् ] आनन्दोद्गतबहुलबाष्पप्लुतदृक् तेन । क्व ? । द्युसरितः गङ्गायाः क्वापि निर्जने ( हं. निर्व्यजने ) पुलिने । [ किं० पुलिने ? | स्फुरत्फारज्योत्स्नाधवलिततले स्फुरन्ती दीप्यमाना स्फारा प्रचुरा या ज्योत्स्ना तया धवलितं शुकृतं तलं यस्य तत् तस्मिन् । किं भूतोऽहम् । ] सुखासीनः । कासु ? । रजनीषु । किं० रजनीषु ? | शान्तध्वनिषु उपशान्तशब्दासु । एवंविधाः वासराः भाग्यहीनानां ( छ. संभोगहीनानां ) न भवेयुः ॥ ४४ ॥
महादेवो देवः सरिदपि च सैवमरसरिद्
गुहा एवागारं वसनमपि ता एव हरितः ।
सुहृद् वा कालोऽयं व्रतमिदमदैन्यत्रतमिदं
कियद् वा वक्ष्यामो वैटविटप एवास्तु दयिता ॥ ४५ ॥
Jain Education International
९७
१ ख. ग. संप्राप्स्यन्ते । २ हं. ग. च. छ. ज. जठर । ३ ज. 'विनोदाः । ४ छ. ज. स्फारा । ५ ख. ग. घ. सुखासीनाः । ६ ख. ग. गोडिनाः । ७ घ. व त्यात्त । ८ग. अ. 'वचसः । ९ ग. स्यामो हर्षोद्गल । १० ख. ग. 'बहल । ११ छ. ज. 'बापा' । १२ 'ढशः । १३ ख. सैवासुर । १४ ज. सरितः । १५ ख. व्रजतिमिदं । ९६ ख. घ. नट ।
१३ शतकत्र•
For Private & Personal Use Only
www.jainelibrary.org