________________
भर्तृहरिकृत-शतकत्रयम्
[३.४१-४२) भवन्तीत्यर्थः । सुकुमारभूमित्वात् यादृशास्ते तरवस्ताहगवस्थां वयं प्राप्ताः स्मः । कस्मात् ? । प्रतिदिवसं दिवसं [ दिवसं] प्रति आसन्नपतनात् आसन्नकालमरणात् । एतावता संसारस्यावस्था ईदृशी वर्तते ॥ ४० ॥
यंत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र चान्ते न चैकः । इत्थं चेमौ रजनिदिवसौ दोलयन् द्वाविवाक्षौ
कालः काल्या सह बहुकलः क्रीडति प्राणिसौरैः ॥४१॥ कालो मृत्युः काल्या सह कालराव्या सह प्राणिसारैः सत्त्व (हं. ख. च. 'त्वि) काष्ठशुष्कैः क्रीडति रमते (हं. च. छ. 'ति)। किं० कालः ? । बहुकला बही कला यस्यासौ बहुकलः । किं कुर्वन् ? । इमौ द्वौ [ रजनिदिवसौ इत्थं अमुना प्रकारेण अक्षाविव पाशकाविव दोलयन् प्रक्षिपन् प्रेरयन् । युक्तोऽयमर्थः । अन्योऽपि यो द्यूतकृत् क्रीडां कुरुते तस्य अक्षौ पाशको विलोक्येते । अत्र कालः द्यूतः (? छूतकृत्)।] रजनिदिवसावेव पाशकौ । इत्थं कथम् ? । यत्र कचिदपि गृहे अनेकः [अथ] तत्र एकस्तिष्ठति । अपि पुनः यत्र एकः तत्र [तदनु] बहवः । चान्यत् । यत्र बहवस्तत्र [अन्ते] एकोऽपि न । कालक्रीडाया इत्थं स्वभावतः (१वः) ॥४१॥
तपस्यन्तः सन्तः किमधिनिर्वसामः सुरनदीं
गुणोदारान् दारानुत परिचरामः सविनयम् । पिबामः शास्त्रौघान् द्रुतविविधकाव्यामृतरसान
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ४२ ॥ जने लोके न विद्मः वयं किं कुर्मः। किमिति संशये । सुरनदीं गङ्गां निवसामः आश्रमं कुर्मः । किं० वयं ? । तपस्यन्तः सन्तः तपः कुर्वन्तः सन्तः । उत अथवा दारान् कलत्राणि (हं. च. छ. कलत्रान् ) परिचरामः परिचर्या कुर्मः । किं० दारान् ? । गुणोदारान गुणोत्कटान् । [ कथं परिचरामः ? । सविनयं । ] उत अथवा शास्त्रौघान् पिबामः शृण्मः । किं० शास्त्रौघान् ? । द्रुतविविधकाव्यामृतरसान् द्रुतः श्रुतः [सुतः ?] विविधकाव्यानां अमृतरसो येषु ते द्रुतविविधकाव्यामृतरसाः तान् । [ इत्थं ] चेतस्यस्माकं संशयो वरीवति । एतेषु पदार्थेषु किं कुर्मः ? । यो गुणाधिकस्तं सेवयामः ॥ ४२ ॥
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।। १ख. घ. यत्रानेका; च. यात्रानेकः। २ ज. कल्या। ३ग. प्राणसारै च. प्राणि-, सारे। ४ ख. घ. किमपि । ५ घ. न वसामः। ६ख. घ. विविधतम । ७ ख. घ. नरभसा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org