________________
[३. ३९-४०]
वैराग्यशतकम् .. अस्माभिरमीषां प्राणानां कृते किं न व्यवसितमुद्यमितम् ? । [ किंभूतानां प्राणानां ? । तुलितबिशिनीपत्रपयसाम् तुलितं बिशिनीपत्रपयो यैस्ते तुलितबिशिनीपत्रपयसस्तेषाम् । ] किं० अस्माभिः ? । विगलितविवेकैः विगलितो विवेको येषां ते विगलितविवेकाः, तैः । विवेकरहितैरित्यर्थः । यदाढ्यानामग्रे धनवतां पुरः वीतवीडैर्गतलज्जैः अस्माभिः ( हं. च. छ. अस्मकाभिः) निजगुणकथापातकमपि कृतम् । निजगुणानां कथापातकम् निजगुणकथापातकम् । किं० आढ्यानां ? । द्रविणमदनिःसंज्ञमनसाम् । कोऽर्थः ? । द्रविणमदेन धनमदेन निःसझं मनो येषां ते द्रविणमदनिःसंज्ञमनसस्तेषां । धनमदाचेतना [ नाम् ] इत्यर्थः ।। ३८ ॥
भ्रातः कष्टमहो महान् स नृपतिः सामन्तचक्रं च तत्
पार्श्वे तस्य च सापि राजपरिषत् ताश्चन्द्रबिम्बाननाः । उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः
सर्व यस्य वशादगात् स्मृतिपदं कालाय तस्मै नमः ॥ ३९ ॥ । तस्मै कालाय नमः । अहो इत्याश्चर्ये । हे भ्रातः ! कष्टं विलोक्यताम् । किं. कष्टम् ? । स एव महान् नृपतिः । चान्यत् । तत् सामन्तचक्रम् । चान्यत् । तस्य पार्श्व सापि राजपरिषत् सापि राजसभा । चान्यत् । ताश्चन्द्रबिम्बाननाः नार्यः । चान्यत् । स राजपुत्रनिवहः नृपकुमारसमूहः । किं० राजपुत्रनिवहः ? । उद्रिक्तः सदर्पः । चान्यत् । ते बन्दिनः ते भट्टाः । चान्यत् । ताः कथाः । यस्य वशात् एतत् सर्व पूर्वोक्तं स्मृतिपदं अगात कथाशेषं जगाम । कालाय तस्मै नमः । यतः कालेन क्षीयते सर्वम् ॥ ३९ ॥
पुनः कालमुद्दिश्याह
वयं येभ्यो जाताश्चिरपरिगता एव खलु ते - समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः । इदानीमेते स्मः प्रतिदिवसमासन्नप॑तनाद्
गतास्तुल्यावस्थां सिर्फतिलनदीतीरतरुभिः ॥ ४० ॥ येभ्यः समानवयोभ्यः समं [वयं] जाताः खलु निश्चितम् ते चिरपरिंगता एव मृता एव । वयं यैः समं संवृद्धास्तेऽपि स्मृतिविषयतां गमिताः । स्मृतेविषयता स्मृतिविषयता तां [गमिताः ] । स्मारिताः सन्तश्चेतोगोचरमायान्तीत्यर्थः । इदानीमेते वयं स्मः सावशेषाः । किं० वयम् ? । सिकतिलनदीतीरतरुभिः तुल्यावस्थां गताः । सिकतिला वे(वालुकाधिका नदी सिकतिलनदी तस्यास्तीरतरवः सिकतिलनदीतीरतरवस्तैः । एतावता सिकतिलनदीतीरतरवः पतनशीला . १ ख. सापि च। २ ज. उद्भिक्तः। ३ ग. सर्वे । ४ ख. घ. श्रुतिपदं । ५ हं. च. समापन । ६ ग. पतना। ७ ख. सिकतल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org